________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु // // अथ उत्तरकृदन्तप्रकरणम् // 3169 / उणादयो बहुलम् / (3-3-1) एते वर्तमाने संज्ञायां च बहुलं स्युः / केचिदविहिता अप्यूह्याः / 'संज्ञासु धातुरूपाणि प्रत्ययाश्च तत: परे / कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु' (भाष्यम्) / 3170 / भूतेऽपि दृश्यन्ते / (3-3-2) 3171 / भविष्यति गम्यादयः। (3-3-3) 3172 / दाशगोनौ संप्रदाने / (3-4-73) अथ उत्तरकृदन्तप्रक्रियाः निरूप्यन्ते-उणादयो बहुलम् // तृतीयेऽध्याये तृतीयपादस्येदमादिमं सूत्रम् / वर्तमाने संज्ञायाञ्चेति // 'वर्तमाने लट्' इत्यतः 'पुवस्संज्ञायाम्' इत्यतश्च तदनुवृत्तेरिति भावः / अत एव ननि हन एह च नपूर्वाद्धन्तेरसिप्रत्यये प्रकृतेः एहादेशे व्युत्पन्न अनेहस्शब्दो वर्तमानकाल एवेत्युक्तं भाष्ये / संज्ञाशब्दश्चात्र रूढशब्दपरः / वैदिकानामपि शब्दानामुपलक्षणम् / अत एव 'नैगमरूढिभवं हि सुसाधु' इति वार्तिकम् / वैदिका रूढशब्दाश्चौणादिका इति भाष्यञ्च सङ्गच्छते / रूढाश्चैते उणादिप्रत्ययान्ताः अवयवार्थशून्या असन्तमप्यवयवार्थमाश्रित्य प्रायः कर्तरि व्युत्पाद्याः / उणादयो वेत्यनुक्त्वा बहुलग्रहणस्य प्रयोजनमाह / केचिदविहिता अप्यूह्या इति // तदेवाह / संशास्वित्यादि / भाष्यस्थोऽयं श्लोकः / डित्यो डिबित्थ इत्यादौ धातुरूपाणि प्रत्ययाश्च यथासम्भवमूह्याः / गुणनिषेधादिकार्यवशात् अनूबन्धं विद्यात् / अनबन्धमित्यत्र ‘उपसर्गस्य घञ्यमनुष्ये' इति दीर्घः / एतत् उणादिषु शास्त्रं शासितव्यम् / ‘कृवापाजि' इत्यादिसूत्राणि तु शाकटायनप्रणीतानि अस्यैव बहुलग्रहणस्य प्रपञ्च इत्यर्थः / भूतेऽपि दृश्यन्ते // उणादय इति शेषः। वर्तमानाधिकारादिदं भूतग्रहणम् / दृशिः प्रयोगानुसारार्थः / इदं सूत्रं बहुलग्रहणवत्प्रपश्चार्थम् / भविष्यति गम्यादयः // भविष्यति काले गम्यादयश्शब्दाः णिनिप्रत्ययान्ताः निपात्यन्ते इत्यर्थः / ग्रामङ्गमीति निपातनान्नात्र णित्वम् गमिष्यनित्यर्थः / प्रस्थायी प्रस्थास्यमान इत्यर्थः / For Private And Personal Use Only