________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 662 सिद्धान्तकौमुदीसहिता [उणादयः इति क्विब्दीक़ प्रक्रम्य, ‘परौ व्रजेः' इति सूत्रस्य पाठात् / अस्मित्रंशे पञ्चपादीदशपाद्योरेकवाक्यत्वात् / यदपि प्राचो ग्रन्थे क्वचित्पठ्यते चिणिति तदप्यपाणिनीयत्वादुपेक्ष्यम् / एतेन प्रघट्टकान्तरे स्तुद्रु परिव्रजां दीर्घश्चेति केचिदिति प्राचो ग्रन्थोऽपि प्रत्युक्तः / सूत्रारूढे सर्वसम्मते चार्थे केचिदित्युक्तेरप्रामाणिकत्वात् / यदपि धनर्तिचक्षिकपिनपिजनियजेरुस् इति पठितं तदप्यनाकरम् / तथा हि / जनेरुसिः / अर्तिपृवपियजितनिधनितपिभ्यो नित् / एतेर्णिच / 'चक्षेः शिच्च' इति सर्वसम्मतः पाठः / वपूंषि तम्मे वपुषो वपुष्टरम्' इत्यादिमन्त्रेष्वायुदात्ततया अनुकूलश्च / वेदभाष्येऽप्येवमेव स्थितम् // इति द्वितीये प्रमादाः // तृतीयेऽपि 'स्तनिदूषिपुषिगदिमदिहृदिभ्यो रित्नुच्' इति प्राचा पठितम् / तत्र दूषिहृदी प्राचां वृत्तिकृतां ग्रन्थे क्वापि न पठितौ / दूषयित्नु: हृदयित्नुरिति प्रयोगोऽप्याकरे न दृष्टः / स्तनिहृषिपुषिमुदिगदिमदिभ्य इति हि पञ्चपादीपाठः / घुषिगन्धिमण्डिजनिगामभ्य इति दशपाद्यामधिकमित्यन्यदेतत् / यदपि श्रुदक्षिस्पृहिगृहिदृजिभ्य आय्य इति पठित्वा दाराय्यः जयाय्य इति प्राचोक्तं तदपि न / दृजिग्रहणस्याकरविरुद्धत्वात् / यदपि विशिभ्यां झच् गण्डिमण्डिजनिनन्दिभ्यश्चेत्युक्त्वा गण्डयन्तो जनयन्त इत्युदाहृतं प्राचा, यच्च गण्डयन्त इति प्रतीकमुपादाय मेघनादमिति व्याख्याय 'गडि वदनैकदेशे' इति व्याख्यातृभिर्विवृतं तदेतत्सर्व प्रामादिकम् / तथा हि उणादिवृत्तिषु गडीति निरनुषङ्गं पठित्वा 'गड सेचने' इति विवृतम् / अयामन्त' इति सूत्रवृत्तिन्यासहरदत्तादिसकलग्रन्थेष्वेवम् / माधवप्रन्थेऽप्येवमेव / युक्तञ्चैतत् / मेघ इति व्याख्यानं प्रति सेचनार्थस्यैवानुगुणत्वात् / जनेः पाठोऽप्यप्रामाणिकः / जिधातुं पठित्वा जयन्तः पाकशासनिरिति सर्वैर्निवृत्तत्वात् अप्रसिद्धत्वाच्च // इति तृतीये प्राचः प्रमादाः // यदपि कृगृस्तृजागृभ्यः क्विन् / गीर्विः स्तृविरिति / तदपि लिपिभ्रमप्रयुक्तमेव / 'कृ विक्षेपे, गृ निगरणे, स्तृञ् आच्छादने' इति प्राचो ग्रन्थं विवृण्वतामुक्तिरपि मूलाशुद्ध्यव हेया / जुगृस्तृजागृभ्यः क्विन् इति पाठः उणादिवृत्तिकृतां माधवादीनाञ्च सम्मतः / जीविः पशुः / शीविहिस्रः / स्तीविरध्वर्युः रिति च तत्तद्वन्थेषूदाहृतम् / स्तृ इत्यस्य दीर्घान्तत्वे एव हि, 'ऋत इद्धातोः' इतीत्त्वं लभ्यते, न तु ह्रस्वान्तत्वेऽपि / तस्माद्यथाकरमेव ग्रहीतुमुचितमिति दिक् / 'ग्लाज्याहात्वरिभ्यो निरित्यप्यनाकरम् / वीज्याज्वरिभ्यो निरिति पठित्वा सूत्रद्वयानन्तरं वहिश्रीति सूत्रे ग्लाहात्वरिभ्यो नित्' इति सूत्रितत्वात् / तूणीरथः सदानव इत्यादावाद्युदात्तदर्शनाच्च / न च 'स्त्रियां क्तिन्' इत्यधिकारस्थं वार्तिकमेवेदं प्राचोदाहृतं न तूणादिस्थमिति वाच्यम् / एवमपि त्वरतेः पाठस्यानुचितत्वात् / न ह्यसौ वार्तिकेऽस्तीति दिक् / एवं संस्त्याने स्त्यायतेडूडिति प्राचोदाहृतमप्यनाकरम् / स्त्यायतेऽडित्येव सूत्रस्याकरे पञ्चपाद्यान्दशपाद्याञ्च उपलम्भात् / संस्त्याने त्यायतेहूड स्त्री सूते सप्प्रसवे पुमान्' इति तु भाष्ये श्लोकपाठः / स एव माधवेनोपन्यस्तः / न तु सूत्रपाठस्य तथात्वं दृश्यते / एतद्वन्थव्याख्यातॄणामपि प्रमादा ऊह्याः / यथा पाणिन्यादिमुनीनिति व्याचक्षाजैरुक्तम् / मनेरुच्चोपधाया इति / न ह्येवंविधं सूत्रं पञ्चपाद्यां दशपाद्यामप्यस्ति / अत इत्यनुवर्तमाने मनेरुचाते सूत्रितत्वात् इति दिक् // इति चतुर्थे प्राचः प्रमादाः // For Private And Personal Use Only