________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 665 / नुवो धुद् च / नोधा: ऋषिः / 666 / गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च / असि: स्यात् / सुतपा: / जातवेदाः / 'गतिकारकोपपदात्कृत्' (सू 3873) इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् / 667 / चन्द्रे मो डित् / चन्द्रोपपदान्माङोऽसि: स्यात्स च डित् , चन्द्रमाः / 668 / वयसि धात्रः / वयोधास्तरुणः / 669 / पयसि च / पयोधाः समुद्रो मेघश्च / 670 / पुरसि च / पुरोधाः / 671 / पुरूरवाः / पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते / 672 / चक्षेबहुलं शिच्च / नृचक्षाः / 673 / उषः कित् / उषः / 674 / दमेरुनसिः / सप्ताचिर्दमुनाः' / 675 / अङ्गतेरसिरिरुडागमश्च / अङ्गिराः / 676 / सर्तेरप्पूर्वादसिः / अप्सरा: / प्रायेणायं भूम्नि / अप्सरसः / बुधे च परमेष्ठिनि' इति मेदिनी / नोधा इति // ‘सद्योभुवद्वीर्याय नोधाः' इति मन्त्रे, नोधा ऋषिर्भवतीति निरुक्तम् / नवं दधातीति तु नैरुक्तं व्युत्पत्त्यन्तरं बोध्यम् / अत्र स्वरसूत्रम् ‘गतिकारकयोः पूर्वपदप्रकृतिस्वरत्वञ्च' इति कृदुत्तरपदप्रकृतिस्वरापवादोऽयम् / चन्द्रे // चन्द्रं रजतम् अमृतञ्च, तदिव मीयते असौ चन्द्रमाः इति हरदत्तः / पुरसि च // 'पुरोधास्तु पुरोहितः' इत्यमरः / 'पुरूरवाः बुधसुतो राजर्षिश्च पुरूरवाः' इत्यपि / 'विद्यात्पुरूरवःशब्दे रुकारस्यापि दीर्घताम्' इति द्विरूपकोशः / नृचक्षा इति // शिश्चेत्युक्त सार्वधातुकसंज्ञा / अतः ख्याञ् न / उषः कित् / दशपाद्यान्तु वसः किदिति पाठः / 'वसति सूर्येण सहेत्युषा / अपो भीति सूत्रे उषसश्चेष्यते' इति वार्तिकस्य समुषद्भिरित्युदाहरणं विवृण्वद्भिहरदत्तादिभिरयं पाठः पुरस्कृतः। दमेरुनसिः // ‘सप्ताचिर्दमुनः शुक्रः' इत्यमरः / पक्षे 'अन्येषामपि दृश्यते' इति दीर्घः / जुष्टो दमूनाः / दमूनसङ्ग्रहपतिं वरेण्यम् / दशपायां तु सूत्रे दीर्घः पठ्यते / तन्मते पक्षे ह्रस्वो बाहुलकाद्बोध्यः / प्रायेणेति // 'स्त्रियां बहुष्वप्सरसः' इत्यमरः / 'स्त्रियां बहुध्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्णवः / 'अप्सरस्स्वप्सराः प्रोकाः सुमनाः सुमनःसु च' इति द्विरूपकोशः 'एकाप्सरःप्रार्थितयोविवादः' इति For Private And Personal Use Only