________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 643 / उदके थुट् च / पाथः / 644 / अन्ने च / पाथो भक्तम् / 645 / अदेर्नुम्धौ च / अदेर्भक्ते वाच्येऽसुन्नुमागमो धादेशश्च / अन्धोऽन्नम् / 646 / स्कन्देश्च स्वाङ्गे / स्कन्धः-स्कन्धसी / 647 / आपः कर्माख्यायाम् / कर्माख्यायां ह्रस्वो नुट् च वा / अप्नः / अपः / बाहुलकात् आप: आपसी / 648 / रूपे जुद् च / अब्जो रूपम् / 649 / उदके नुम्भो च / अम्भः / 650 / नहेर्दिवि भश्च / नभः / 651 / इण आगोऽपराधे च / 'आग: पापापराधयोः' / 652 / अमेहुंक्च / अंहः / 653 / रमेश्च / रंहः / 654 / देशे ह च / रमन्तेऽस्मिन्रहः / पृथुना / पृथुपाजा अमर्त्यः' इत्यादिमन्त्रतद्भाष्यविरोधात् / अदेः // 'भिस्सा स्त्री भक्तमन्धोऽनम्' इत्यमरः / 'द्विजातिशेषेण यदेतदन्धसा' इति भारविः / 'समन्धसा समदः पृष्ठ्येन' इति श्रुतिः / स्कन्देश्च // असुन् धश्चान्तादेशः / आपः कर्माख्यायाम् // असुन् / ह्रस्वश्च धातोः। प्रत्ययस्य नुडागमस्तु वा / 'अप्नस्वतीमश्विना / अपांसि यस्मिन्नधिसन्दधुः।' बाहलकादित्यपलक्षणम। हस्वनटौ वा स्त इति व्याख्यानादित्यपि बोध्यम् / तथा च ब्रवते 'कतमेऽपि नपुंसकमापः' इति कोशमुदाहृत्य 'सर्वमापोमयजगत्' इति प्रयोगो दुर्घटवृत्ती समर्थितः / रूपे // आप्नोतेरसुन् ह्रस्वत्वञ्च धातोः प्रत्ययस्य जुट् चेत्यर्थः / अब्ज इति // 'झलाजश् झशि' इति पकारस्य बकारः / नहेः // ‘नभो व्योम्नि नभो मेघे श्रावणे च पतगृहे / घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृतम्' इति विश्वः / ‘नभः क्लीबं व्योम्नि पुमान् / घने श्रावणवर्षासु बिसतन्तौ पतगृहे ' इति मेदिनी / 'नभन्तु नभसा सार्द्धम्' इति द्विरूपकोशादकारान्तोऽपि / विश्वोक्तिमाह / आग इति // अमेः // अमन्ति गच्छन्त्यधोऽनेनेत्यंहो दुरितम् / रमेश्च // रहो वेगः / अहिरहिभ्यामसुना सिद्धेऽघिरघिभ्यामसनि अङ्घो रङ्घः इति माभूदिति सूत्रद्वयमिति गोवर्द्धनः। तथा च 'स्यान्मद्ध्योष्मचतुर्थत्वमंहसो रहसस्तथा' इति द्विरूपकोशः। एवञ्च ‘दत्तार्घाः सिद्धसङ्घर्विदधतु घृणयः शीघ्रमङ्घोविघातम्' इति / ‘रङ्घः सङ्घः सुराणाजगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात् स्यन्दनो वः' इति घकारपाठोऽनुप्रासरसिकानां प्रामादिक इति वदन्ति / देशे ह च // For Private And Personal Use Only