________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 633 शीलं स्वभावः। शैवलः / शेवालम् / बाहुलकात् वस्य पोऽपि / शेवालं शैवलो न स्त्री शेपालो जलनीलिका'। 479 / मृकणिभ्यामूकोकणौ / मरूको मृगः काणूकः काकः / 480 | वलेरूकः / वलूक: पक्षी उत्पलमूलं च / 481 / उलूकादयश्च / वले: संप्रसारणमूकश्च / उलूकाविन्द्रपेचको / वावदूको वक्ता / भल्लूकः / ‘शमेर्बुक् च' (गण 200) / शम्बूको जलशुक्तिः / 482 / शलिमण्डिभ्यामूकण् / शालूकं कन्दविशेष: / मण्डूकः / 483 / नियो मिः / नेमिः / 484 / अर्तेरूच्च / अमिः / 485 / भुवः कित / भूमिः / 486 / अश्नोते रश्च / रश्मिः किरणो रज्जुश्च / 487 / दल्मिः / दल विशरणे / दल्मिरिन्द्रायुधम् / इत्यमरः / अर्धर्चादिपाठात् क्लीबत्वञ्च / 'पुनपुंसकयो रुजीवातुस्थाणुशीधवः' इति त्रिकाण्डशेषः / ‘शीलं स्वभावे सद्वृत्ते' इति मेदिनी / 'जलनीली तु शेवालं शैवलः' इत्यमरः / शैवलं पद्मकाष्ठे स्यात् शैवले तु पुमानयम्' इति मेदिनी / शब्दार्णवोक्तिमाह / शेवालमित्यादि // उलूकादयश्च // 'उलूकः पुंसि काकादाविन्द्रे भारतयोधिनि' इति मेदिनी / वदेयङन्तादृकः / 'वाचोयुक्तिपटुर्वाग्मी वावदूकश्च वक्तरि' इत्यमरः / शमेर्बुक् च // 'शम्बूको गजकुम्भान्ते घोषे च शूद्रतापसे' इति मेदिनी / बाहुलकादुकप्रत्यये ह्रस्वमध्योऽपि / 'जम्बूकं जम्बुकं प्राहुः शम्बूकमपि शम्बुकम्' इति द्विरूपकोशः। जम्बूकबन्धुकादयोऽप्यत्रैव द्रष्टव्याः / 'जम्बूकः फेरवे नीचे पश्चिमाशापतावपि' इति विश्वमेदिन्यौ / ‘बन्धूकं बन्धुजीवे स्यात् बन्धूकः पीतसारके' इति च / शलिमण्डि // ‘सौगन्धिकन्तु कहारम्' इत्याद्युपक्रम्य 'शालूकमेषां कन्दः स्यात्' इत्यमरः / एषां सौगन्धिकादीनां कैरवान्तानां कन्दो मूलमित्यर्थः / नियो मिः // 'नेमिर्ना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम्' इति मेदिनी / बाहुलकादन्यतोऽपि / 'या प्रापणे / ' 'यामिः स्वसृकुलस्त्रियोः' इत्यन्तःस्थादौ रभसः। 'यामिः कुलस्त्रीस्वस्रोः स्त्री' इत्यन्तःस्थादौ मेदिनी / 'जै क्षये।' 'जामिः स्वसृकुलस्त्रियोः' इति चवर्गतृतीयादौ अजयकोशः। 'चवर्गादिरपि प्रोक्तो यामिः स्वसृकुलस्त्रियोः' इति द्विरूपेषु विश्वः / अर्तेरूच्च॥ उच्चेत्युचितम् / 'ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः / वस्त्रसङ्कोचरेखायां वेदनापीडयोरपि' इति मेदिनी / भूमिः, 'भूमिर्वसुन्धरायां स्यात् स्थानमात्रेऽपि च स्त्रियाम्' इति मेदिनी / अश्नोतेः // 'रश्मिः पुमान् दीधितौ स्यात् पक्षप्रग्रहयोरपि' इति मेदिनी / 80 For Private And Personal Use Only