________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा / 623 623 385 / अमिनक्षियजिवधिपतिभ्योऽनन् / अमत्रं भाजनम् / नक्षत्रम् / यजत्रः / वधत्रमायुधम् / पतत्रं तनूरुहम् / 386 / गडेरादेश्च कः / कडत्रम् / डलयोरेकत्वस्मरणात्कलत्रम् / 387 / वृश्चित् / वरत्रा चर्ममयी रज्जुः / 388 / सुविदेः कत्रः / 'सुविदवं कुटुम्बकम्' / 389 / कृतेर्नुम्च / कृन्तत्रं लाङ्गलम् / 390 / भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् / दशभ्योऽतस्यात् / भरतः / मरतो मृत्युः / ‘दर्शत: सोमसूर्ययोः' / यजतः ऋत्विक् / पर्वतः। पचतोऽग्निः। अमतो रोगः / तमतस्तृष्णापरः। नमतः प्रह्वः / हर्यतोऽश्वः / 391 / पृषिरञ्जिभ्यां कित् / पृषतो मृगो बिन्दुश्च / रजतम् / 392 / खलतिः। स्खलते: सलोपः / अतच्प्रत्ययान्तस्येत्वञ्च / खलतिनिष्केशशिराः। अमि // 'नक्ष गतौ' / वधिः प्रकृत्यन्तरम् / नक्षत्रमिति // 'नभ्राण्नपात्' इति सूत्रे नञः प्रकृतिभाव उक्तः। क्षदेः सौत्रे त्रनि नसमासे व्युत्पत्त्यन्तरं तदिति बोध्यम् / यजत्रं अग्निहोत्रमिति प्राञ्चः। वस्तुतस्तु यजत्रो यष्टव्यदेवता / 'सन्तो वायुर्वातेन गच्छतां संयजत्रैरङ्गानि' इति मन्त्र तथा दर्शनात् / गडेः // 'गड सेचने' 'कळत्रं श्रोणिभार्ययोः' इत्यमरः / वृञ // चित्त्वादन्तोदात्तः / 'वरत्रायान्दा नह्यमानः।' सुविदेः कत्रः॥ इह प्रायेण कत्रनिति नितं पठन्ति। तत्प्रामादिकम् / 'बृहस्पतेः सुविदत्राणि राद्ध्येत्यादौ नित्स्वरादर्शनात् / कृदुत्तरपदप्रकृतिस्वरेण प्रत्ययस्वरस्यैव दर्शनाच्च / 'धन्वचयत्कृन्तत्रञ्च' इति मन्त्रेऽपि तथैव / 'कृन्तत्रर्तनीयमरण्यम्' इति वेदभाष्यम् / भृमृशियजिपर्विपच्य // 'भृञ् भरणे' 'मृङ् प्राणत्यागे' 'दृशिर् प्रेक्षणे' / दशपाद्यान्तु 'भृदृशीङ्' इति पठित्वा 'दृङ् आदरे' / द्रियते दरतः शेते शयतः इत्युदाहृतम् / तन्न / रुशम्तमग्निन्दर्शतं बृहन्तम् / तरणिर्विश्वदर्शतः। दैव्यो दशतो रथः इत्यादिमन्त्रैस्तद्भाष्येण च विरोधात् / 'भरतो नाट्यशास्त्रे मुनौ नटे। रामानुजे च दौष्यन्तौ' इति मेदिनी / यजतः ऋत्विगिति // उज्ज्वलदत्ताद्यनुरोधेनोक्तम् / 'विनों अश्विना यजत / हिरण्यशम्यं यजतो बृहन्तम्' इत्यादिषु यजतशब्दो यष्टव्यपरतयैव वेदभाष्ये व्याख्यातः। 'पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः। देवमुन्यन्तरे शैले' इति मेदिनी। हर्यतोऽश्व इति // एतदपि 'हर्य कान्तौ गतौ च' इति धात्वर्थ वृत्तिकारोक्तिच्चानुसृत्योक्तम् / 'परित्यं हर्यतं हरिम् / आर्यताय धृष्णवे' इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम् / पृषिरञ्जि॥ 'पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना'। अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ / For Private And Personal Use Only