________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः] बालमनोरमा। 605 232 / सुयुरुस्रो युच् / सवनश्चन्द्रमाः / यवनः / रवणः कोकिलः। वरणः / 233 / अशे रश च / अश्नोतेयुच्स्यात् रशादेशश्च / रशना काञ्ची / जिह्वावाची तु दन्त्यसकारवान् / 234 / उन्देर्नलोपश्च / ओदनः / 235 / गमेर्गश्च / गमेयुच्स्याद्गश्चादेशः / गगनम् / 236 / बहुलमन्यत्रापि / युच्स्यात् / स्यन्दनः / रोचना / 237 / रञ्जेः क्युन् / रजनम् / 238 / भूमधूभ्रस्जिभ्यश्छन्दसि / भुवनम् / सुवन: आदित्यः / धुवनो वह्निः / निधुवनं सुरतम् / भृजनमम्बरीषम् / / 239 / कृजिमन्दिनिधाञः क्युः / किरणः / पुरण: समुद्रः / वृजनमन्तरिक्षम् / मन्दनं स्तोत्रम् / निधनम् / सुयु // 'सवनन्त्वध्वरे स्नाने सोमनिर्दलनेऽपि च' इति मेदिनी / ‘रवण: शब्दने खरे' इति च / ‘वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृतौ' इति विश्वः / 'वरुणे वरण: सेतुस्तिक्तशाकः कुमारकः' इत्यमरः / अशे रश च // जिह्वेति // ‘रस आस्वादने' चौरादिकः। ततो नन्द्यादित्वाल्ल्युः / ‘ण्यासश्रन्थः' इति युज्वा / 'अथ रसनं स्वादने ध्वनौ / जिह्वायान्तु न पुंसि स्यात् रास्नायां रसना स्त्रियाम्' इति मेदिनी / एषा दन्त्यतालव्यवतोयोरर्थव्यवस्था भूरिप्रयो. गाभिप्रायेणोक्ता / वस्तुतस्तु द्वावष्यर्थद्वये साधू। तथा हि / 'तालव्या अपि दन्त्याश्च शम्बशम्बलशूकराः / रशनापि च जिह्वायाम्' इति विश्वकोशाजिह्वायामुभयम् / 'रसनं निस्वने स्वादे रसना काञ्चिजिह्वयोः' इत्यजयधरणिकोशाभ्यां काञ्च्यामुभयं साधु / ‘रसनं स्वदने वाथ रसना काञ्चिजिह्वयोः। रसनञ्चापि रास्नायाम्' इति विश्वप्रकाशाचेति दिक् / एवञ्चेह सूत्रे अशू व्याप्ती 'अश भोजने' इति धातुद्वयमपि ग्राह्यम् / 'रस आस्वादने' 'रस शब्दे' इति धातुभ्यां 'बहुलमन्यत्रापि' इत्यनुपदं वक्ष्यमाणो युच / तेन सर्वत्रावयवार्थानुगमोऽपि सूपपाद इत्यवधेयम् / उन्देः॥ 'ओदनं न स्त्रियां भक्ते बलायामोदनी स्त्रियाम' इति मेदिनी / बहलम॥ 'स्यन्दनन्तु स्रुतौ नीरे तिनिशे ना रथेऽस्त्रियाम्' इति मेदिनी / 'रोचना रक्तकल्हारे गोपित्तवरयोषितोः। रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु' इति च / 'चदि आह्लादने' / 'चन्दनं मलयोद्भवे / चन्दनः कपिभेदे स्यान्नदीभेदे तु चन्दनी' इति विश्वः / 'चन्दनी तु नदीभेदे / चन्दनोऽस्त्री मलयजे भद्रकाल्यां नपुंसकम्' इति मेदिनी। भद्रकाली ओषधि विशेषः / ‘भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रियाम्' इति मेदिनी / 'असु क्षेपणे'। 'असनं क्षेपणे क्लीबं पुंसि स्याज्जीवकद्रुमे' इति मेदिनी / 'अत सातत्यगमने' / राजपूर्वः / 'राजातनः क्षीरिकायां प्रियाले किंशुकेऽपि च' इति विश्वमेदिन्यौ। एवमन्येऽपि द्रष्टव्याः / रओः क्युन् // बाहुलकात्कृपेरपि / लत्वाभावश्च / कृपणः / भूसू // बहुलवचनाद्भाषायामपि / 'भुवनं विष्टपेऽपि स्यात्सलिले गगने जने' इति मेदिनी। कृप // 'निधनं स्यात्कुले नाशे' इति For Private And Personal Use Only