________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 593 गमनम् / धर्मः / क्षेमं कुशलम् / क्षोमम् / प्रज्ञाद्यणि क्षौमञ्च / भाम: आदित्यः / यामः / 'वामः शोभनदुष्टयोः' / पद्मम्। यक्ष पूजायाम् / यक्ष्मो रोगराजः / नेमः। 138 / जहातेः सन्वदालोपश्च / * जिह्मः कुटिलमन्दयोः' / 139 / अवतष्टिलोपश्च / मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः / अन्यथा डिदित्येव ब्रूयात् / ‘ज्वरत्वर-' (सू 2654) इति ऊठौ / तयोर्दीघे कृते गुणः / चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न / तेषामसत्त्वार्थत्वात् / वस्तुतस्तु स्वरादिपाठादव्ययत्वम् / अवतीति ओम् / 140 / ग्रसेरा च / ग्राम: / 141 / अविसिविसिशुषिभ्यः कित् / ऊमं नगरम् / स्यूमो रश्मिः / सिमः सर्वः / 'शुष्ममग्निसमीरयोः' / 142 / इषियुधीन्धिदसिश्याधुसूभ्यो मक् / ' इष्मः कामवसन्तयोः' / ऋतौ। अहिंसोपनिषत्रयाये ना धनुर्यमसोमपे' इति च / 'धर्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतो' इति विश्वः / 'क्षौमं पट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांशुके / शणजेऽतसिजे' इति मेदिनी / 'भामः क्रोधे रवौ दीप्तौ / यामस्तु पुंसि प्रहरे संयमेऽपि प्रकीर्तितः / वाम धने पुंसि हरे कामदेवे पयोधरे / वल्गुप्रतीपसव्येषु त्रिषु नार्या स्त्रियामथ / वामी शृगालीबडबारासभीकरभीषु च / पद्मोऽस्त्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे / ना नागे' इति च मेदिनी / यक्ष पूजायामिति // यत्तूज्ज्वलदत्तेन 'जक्ष भक्ष हसनयोः' इत्युपन्यस्तम् , तन्न, तस्य चवर्गतृतीयादित्वात् / न च लक्ष्यमपि तथैवेति भ्रमितव्यम् / “अक्षिभ्यान्ते नासिकाभ्याम्" इति मन्त्रे यक्ष्मशब्दस्यान्तःस्थादित्वनिर्णयात् / न च तदुपन्यस्तधातुरप्यन्तःस्थादिरिति भ्रमितव्यम् / 'जक्षत् क्रीडन् रममाणः' इत्यादिप्रयोगेण तथा कविकल्पद्रुमादिभिः सह विरोधादिति दिक् / मनिन्प्रत्यये तु नान्तः / 'राजयक्ष्मेव रोगाणाम्' इति माघः / 'यक्ष्मणापि परिहाणिराययौ' इति रघुः / दशपादीवृत्तौ तु इह सूत्रे पक्षीति पवर्गीयादि पठित्वा सौत्रो धातुः बाहुळकानकारस्य नेत्संज्ञा इत्युक्ता अक्षिपक्ष्मेत्युदाहृतम् / तन्न / 'पक्ष परिग्रहे' इत्यस्मान्मनिना गतार्थत्वात् / 'नेमः क्लीबेऽवधौ गर्ने प्राकारे कैतवेऽपि च' इति मेदिनी / 'नेमस्त्व प्राकारगर्तयोः / अवधौ कैतवे च' इति हेमचन्द्रः। जहातेः॥ 'जिह्मस्तु कुटिले मन्दे क्लीबन्तगरपादपे' इति मेदिनी / अवतेः॥ ‘ओं प्रश्नेऽङ्गीकृतौ रोषे' इति विश्वः / प्रसेरा च // ‘ग्रसु अदने' / अतो मन् / धातोराकारश्च / 'ग्रामः स्वरे संवसथे बृन्दे शब्दादिपूर्वके' इति विश्वः / शब्दादिपूर्वको ग्रामशब्दो बृन्दे / शब्दप्रामो गुणग्राम इति यथा / संपूर्वोऽयं युद्धे। तदुक्तम् / 'संपूर्वः संयुगे स्मृतः' इति / ऊमं नगरमिति // 'त्वे ऋतुम्' इति मन्त्रे 'ऊमास्तर्पका यजमानाः' इति वेदभाष्यम्। स्यूमो रश्मिरिति // सूत्रतन्तुरित्यन्ये / 'शुष्मं तेजसि सूर्ये ना' इति मेदिनी। 'शुष्मं बलम्' इति वेदभाष्ये / इषियुधि // 75 For Private And Personal Use Only