________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 590 सिद्धान्तकौमुदीसहिता [उणादयः 112 / कादिभ्यः कित् / कवर्गादिभ्यो ड: कित्स्यात् / कुण्डम् / काण्डम् / गुङ् गुडः / ‘घुण भ्रमणे' घुण्डो भ्रमरः / 113 / स्थाचतिमृजेरालज्वालबालीयचः / तिष्ठतेरालच् / स्थालम्स्थाली / चतेर्वालम् / चात्वाल: / मृजेरालीयच् / मार्जालीयो बिडालः / 114 / पतिचण्डिभ्यामालञ् / पातालम् / चण्डालः / प्रज्ञादित्वादणि चाण्डालोऽपीत्येके। 115 / तमिविशिविडिमृणिकुलिकपिपलिपश्चिभ्यः कालन् / तमालः / विशालः / बिडाल: / मृणालम् / कुलाल: / कपालम् / पलालम् / पञ्चालाः / नेक्षुविकारमणिभेदयोः / मण्डः पञ्चाङ्गुले शाकभेदे क्लीबन्तु मस्तुनि / चण्डा तु पांसुलायां स्त्री त्रिषु हस्तादिवर्जिते / अण्डं मुष्कं च पेश्यां स्यात् / षण्डं पद्मादिसङ्घाते न स्त्री स्यात् गोपतौ पुमान् / गण्ड: स्यात्पुंसि खहिनि / ग्रहयोगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च / चिह्नवीरकपोलेषु हयभूषणबुबुदे / चण्डोला तिन्त्रिणीवृक्षे यमकिङ्करदैत्ययोः / चण्डी कात्यायनीदेव्यां हिंस्राकोपनयोषितोः / चण्डा धनहरो शङ्खपुष्पी त्रिष्वतिकोपने / तीवेऽपि / पण्ड: शठे धियि स्त्री स्यात्' इति मेदिनी / 'फण गतौ' / फण्डः / प्रज्ञादित्वादण् / फाण्डं सुन्दरम् / क्वादिभ्यः कित् // कुण्डमिति // कुण शब्दोपकरणयोः / कित्त्वान्न गुणः / 'कुण्डमग्न्यालये मानभेदे देवजलाशये / कुण्डी कमण्डलौ जारात्पतिवत्नीसुते पुमान् / पिठरे तु न ना' इति- मेदिनी। काण्डमिति // कमु कान्तौ / 'अनुनासिकस्य कि' इति दीर्घः / ‘काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः / अर्वा कुत्सितः / अत एव ‘काण्डं स्तम्बे तरुस्कन्धे बाणे वरदनीरयोः / कुत्सिते वृक्षभिन्नाडीबुन्दे रहसि न स्त्रियाम्' इति मेदिनी / 'गुडो गोलेक्षुपाकयोः' इत्यमरः / गुडा स्नुही, तद्वत्केशाः अस्य गुडाकेशः, शिवः / जटाधारित्वात् / 'गुडः स्याद्गोलके हस्तिसन्नाहेक्षुविकारयोः / गुडा स्नुह्याञ्च कथिता गुडिकायाञ्च योषिति' इति मेदिनी / स्थाचति // लचा सिद्धे आलचः आकारश्चिन्त्यप्रयोजनः / चित्स्वरं बाधित्वा पक्षे आद्युदात्तार्थ इत्येके / 'स्थालं भाजनभेदेऽपि स्थाली स्यात् पाटलोखयोः' इति मेदिनी / 'चात्वालो यज्ञकुण्डे स्याद्दर्भे च' इति विश्वः / 'मार्जालीयः स्मृतः शूद्रे बिडाले कायशोधने' इति मेदिनी / पातालमिति // उपधावृद्धिः / 'पातालं नागलोके स्याद्विवरे बडवानले' इति मेदिनी / 'चडि कोपे' इत्यस्य तु इदित्त्वान्नुमि अदुपधत्वाभावान वृद्धिः / यत्तु माधवग्रन्थे 'पतिचण्डिभ्यामालन्' इति पठित्वा पातालशब्दे बाहुलकाद्वृद्धिमुक्त्वा आलमिति वृद्ध्यर्थ जितङ्केचित्पठन्ति इत्युपन्यस्य चण्डालशब्देऽपि वृद्धिः स्यादिति दूषितम् / तदतिरभसात् / एके इत्यपरितोषोद्भावनम् / तद्बीजन्तु 'कुलालवरुडकर्मारनिषादचण्डालमित्रामित्रेभ्यश्छन्दसि' इति चण्डालात्स्वार्थेऽणं विदधता वार्तिकेन तद्भाष्येण च सह विरोध इति बोध्यम् / तमिविशि // 'तमु काङ्खायाम् , विश प्रवेशने, बिड आक्रोशे, मृण हिंसायाम् , कुल संस्त्याने, कपि चलने, निर्देशानलोपः / 'पल गतौ, पचि विस्तारे। 'तमालस्तिलके खङ्गे तापिञ्छे वारुणद्रुमे / For Private And Personal Use Only