________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु // // अथोणादयः॥ 1 / कृवापाजिमिस्खदिसाध्यशूभ्य उण् / करोतीति कारु:, शिल्पी कारकश्च / 'आतो युक्-' (सू 2761) / वातीति वायुः / पायुर्गुदम् / जयत्यभिभवति रोगान् जायुः औषधम् / मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः अथ उणादिप्रारम्भः–'कृवापाजि' इत्यादीन्युणादिसूत्राणि मूले प्रौढमनोरमायाञ्च स्फुटं व्याख्यातानि। तत्र न किञ्चिव्याख्यातव्यमुपलभ्यते / तानि चेमान्युणादिसूत्राणि शाकटायनमुनिप्रणीतानि, नतु पाणिनिना प्रणीतानि इति 'उणादयो बहुळम्' इति सूत्रभाष्ये 'नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्' इति वार्तिकव्याख्यानावसरेऽभिहितम् / 'उणादीनां शास्त्रान्तरपठितानां साधुत्वाभ्यनुज्ञानार्थ बहुळग्रहणम्' इति कैयटः। न ह्येषा. म्पाणिनीयत्वे शास्त्रान्तरशब्दो युज्यते। उणादिप्रत्ययान्ताश्शब्दाः पाणिनिमते अव्युत्पन्ना एव / अत एव 'आयनेयी' इति सूत्रे “प्रातिपदिकविज्ञानाच्च भगवतः पाणिनस्सिद्धमुणादयो ह्यव्युत्पन्नानि प्रातिपदिकानि” इति भाष्ये उक्तम् / अत एव च “'आदेशप्रत्यययोः' इति सूत्रभाष्ये उणादयो ह्यव्युत्पन्नानि प्रातिपदिकानि इत्युक्त्वा तर्हि सर्पिषा यजुषेत्यादौ अप्रत्ययत्वात् षत्वाभावमाशय बहुळग्रहणात् प्रत्ययसंज्ञामवलम्ब्य षत्वं साधितम् / व्युत्पत्तिपक्षश्च निराकृतः / अतोऽप्युणादिसूत्राणान्न पाणिनीयत्वम् / अत एव 'अजेय॑घनपोः' इति सूत्रभाष्ये अजधातोर्युप्रत्यये प्रकृतेर्वीभावे वायुशब्दो व्युत्पादितः / उणादिसूत्राणां पाणिनीयत्वे हि ‘कृवापाजि' इत्युणादिसूत्रेण उप्रत्ययमाश्रित्यैव व्युत्पद्येत / एवञ्च क्वचिद्भाष्ये उणादीनां व्युत्पन्नत्वाश्रयणं शास्त्रान्तरमूलकमेव इति शब्देन्दुशेखरे प्रपञ्चितम् / तथा च 'क्विब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां' इत्युणादिसूत्राणां तथाविधवार्तिकानाञ्च न पौनरुक्त्यशङ्का // * कृवापा // " कारुः शिल्पिनि कारके” इति धरणिकोशमभिप्रेत्याह / कारुरित्यादि // आये योगरूढिः / द्वितीये तु योगमात्रमिति विवेकः / अत एव द्वितीये धात्वर्थ प्रति कारकान्वयो भवत्येव / तथा च भट्टिः / “राघवस्य ततः कार्य कार्वानरपुङ्गवः / सर्ववानर सेनानामाश्वागमनमादिशत्” इति। पायुः पुंसि / 'गुदन्त्वपानं पायुर्ना' इत्यमरः / पिबत्यनेन तैलादिकमिति विग्रहः / पाति रक्षतीति विग्रहे रक्षकोऽपि / तथा च मन्त्रः / 'भुवस्तस्य स्वतवाः पायुरप्रे' इति / ‘स्वतवान्पायौ' इति रुत्वम् / जायुरिति // ‘भेषजौषधभैषज्या. न्यगदो जायुरित्यपि' इत्यमरः / साहचर्यात्पुंस्त्वम् / ‘मायुः पितं कफः श्लेष्म' इत्यमरः / * उणादिषु वालमनोरमाप्रणेतुर्वासुदेवदीक्षितस्याभप्रायानुसारेण प्रौढमनोरमा मुद्यते / For Private And Personal Use Only