________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 573 ___3164 / हलसूकरयोः पुवः / (3-2-183) पूपूओः करणे ष्ट्रन्स्यात् / तच्चेत्करणं हलसूकरयोरवयवः / हलस्य सूकरस्य वा पोत्रम् / मुखमित्यर्थः / 3165 / अर्तिलूधूसूखनसहचर इत्रः / (3-2-184) अरिवम् / लवित्रम् / धुवित्रम् / सवित्रम् / खनित्रम् / सहित्रम् / चरित्रम् / 3166 / पुवः संज्ञायाम् / (3-2-185) पवित्रम् / येनाज्यमुत्पूयते, यच्चानामिकावेष्टनम् / 3167 / कर्तरि चर्षिदेवतयोः / (3-2-186) पुव इत्र: स्यात् ऋषौ करणे, देवतायां कर्तरि / ऋषिर्वेदमन्त्रः / तदुक्तमृषिणेति दर्शनात् / पूयतेऽनेनेति पवित्रम् / देवतायां तु 'अग्निः पवित्रं स मा पुनातु'। इति पूर्वकृदन्तप्रकरणम् / दंष्ट्रेति // दंशधातोः नः / विडत्प्रत्ययाभावानलोपो न / सूत्रे दशेति शपा निर्देशात् ‘दंशसञ्ज' इति नलोपः / केचित्तु दशेत्यकार उच्चारणार्थः / नलोपनिर्देशात् क्वचिदन्यस्मिन्नपि प्रत्यये अकङित्यपि नलोप इति दशना दन्ता इत्याहुः / नीति // नह्यते अनयेति विग्रहः / चर्मरज्जुः / 'नह बन्धने' नः / 'नहो धः' 'झषस्तथोः' इति तस्य धः / षित्त्वान्ङीष् / हलसूकरयोः पुवः // पोत्रमिति // 'तितुत्रतथसिसुसर' इति नेट् / अर्तिलूधू // अर्ति, लू, धू, सू, खन, सह, चर, एषां सप्तानां द्वन्द्वात्पञ्चमी / पुवः संज्ञायाम् // इत्र इति शेषः / करणे इत्येव / पवित्रमिति // पूयते अनेनाज्यमिति विग्रहः / तदाह / येनाज्यमिति // पूयते आचमनोदकादिकमनेनेति विग्रहं मत्वा आह / यच्चानामिकेति // अनामिका उपकनिष्ठिकाङ्गुलिः / कर्तरि च // पवित्रमिति // पावमान्यादि सूक्तम् / अग्निः पवित्रमिति // पुनातीत्यर्थः / सामान्याभिप्रायमेकवचनं नपुंसकत्वञ्च // इति श्रीमद्वासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां श्रीबालमनोरमाख्यायां तृतीयाध्यायस्य द्वितीयपादे पूर्वकृदन्तप्रकरणं समाप्तम् / For Private And Personal Use Only