________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 570 सिद्धान्तकौमुदीसहिता . [कृदन्त / यातेर्यजन्ताद्वरच् स्यात् / अतो लोप:' (सू 2380) तस्य ‘अचः परस्मिन्-' (सू 50) इति स्थानिवद्भावे प्राप्ते न पदान्त इति सूत्रेण यलोपं प्रति स्थानिवद्भावनिषेधात् 'लोपो व्यो:-' (सू 873) इति यकारलोपः / अल्लोपस्य स्थानिवत्त्वमाश्रित्य आतो लोपे प्राप्ते 'वरे लुप्तं न स्थानिवत्' / यायावरः। 3157 / भ्राजभासधुर्विद्युतोर्जिपूजुग्रावस्तुवः विप् / (3-2-177) विभ्राट् / भा:-भासौ / धू:-धुरौ / विद्युत् / ऊर्छ / पू:-पुरौ / दृशिग्रहणस्याप्यपकर्षाजवतेर्दीर्घः / जू:-जुवौ-जुवः / ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते / ततः किम् / प्रावस्तुत् / यः इति षष्ठ्यन्तम् / तदाह / यातेरिति // याधातोर्यङ्, द्वित्वादि 'दीर्घोऽकितः' इत्य. भ्यासस्य दीर्घः, यायाय इति यङन्ताद्वरचि विशेषमाह / अतो लोप इति // हल: परत्वाभावात् 'यस्य हलः' इति यकारलापो न। यायाय् वर इति स्थिते आह / लोपोव्योरिति यकारलोप इति // ननु अतो लोपस्य 'अचः परस्मिन् ' इति स्थानिवत्त्वात् अकारेण व्यवधानात् वल्परत्वाभावात् कथमिह यलोप इत्यत आह / तस्येति // तस्य अल्लोपस्य यलोपे कर्तव्ये 'न पदान्त' इति स्थानिवत्त्वनिषेधादित्यर्थः। एवञ्च योऽकारस्य यकारस्य च लोपे यायावर इत्यत्र 'आतो लोप इटि च' इत्याल्लोपमाशङ्कय निराकरोति / अल्लोप. स्येति // यङकारलोपस्य 'अचः परस्मिन्' इति स्थानिवत्त्वमाश्रित्य तदकारात्मकार्धधातुकपरत्वात् आकारस्य 'आतो लोप इटि च' इत्याल्लोपे प्राप्ते सति परिहार उच्यते इत्यर्थः / परिहारमेवाह / वरे लुप्तन्न स्थानिवदिति // लुप्तमिति भावे क्तः / 'न पदान्त' इति सूत्रे वरे इत्यनेन वरे परे विहितन्न स्थानिवदिति लभ्यते / अल्लोपोऽयमार्धधातुके परे विहितः / अतः तस्य स्थानिवत्त्वाभावान यङोऽकारमाश्रित्य 'आतो लोप इटि च' इत्यस्य प्रवृत्तिरित्यर्थः / एवञ्च 'न पदान्त' इति सूत्रे वरे इत्यंशस्य यलोपे इत्यंशस्य च यायावर इत्युदाहरणामिति बोध्यम् / भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः॥ भ्राज, भास, धुवीं, द्युत, ऊर्जि, पृ, जु, प्रावस्तु, एभ्योऽष्टभ्यः किप्स्यात् तच्छीलादिषु कर्तृष्वित्यर्थः / विभ्राडिति // ‘वश्च' इति षः / भा इति // भासे: क्विपि सकारान्तस्य रुत्वविसौं / धूरिति // धुर्वीधातोः विप् / ‘रालोपः' इति वकारस्य लोपः। धुर् इति रेफान्तम् / सुलोपः / ‘वॉरुपधायाः' इति दीर्घः / पूरिति // पृधातोः विप् / 'उदोष्ठ्य' इत्युत्त्वम् , रपरत्वम् / पुर् इति रेफान्तम् , सुलोपे 'वोः' इति दीर्घः / जुधातोः क्विपि दीर्घ साधयितुमाह / दृशिग्रहणस्याप्यपकर्षादिति // उत्तरसूत्रादिति भावः / अत्र व्याख्यानमेव शरणम् / ननु प्रावस्तु इति कथं समस्तनिर्देशः / सुबन्तस्य प्रावशब्दस्य धातुना समासासम्भवादित्यत आह / ग्रावशब्दस्येति // For Private And Personal Use Only