________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 2266 / इट ईटि / (802-28) इटः परस्य सस्य लोपः स्यादीटि परे / सिज्लोप एकादेशे सिद्धो वाच्यः / - आतीत / आतिष्टाम् / आतिषुः / 2237 / वब्रजहलन्तस्याचः। (7-2-3) वदेरृजेहलन्तस्य चाङ्गस्याच: स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु / इति प्राप्ते। 2268 / नेटि / (7-2-4) इडादौ सिचि प्रागुक्तं न स्यात् / मा भवानतीत् / अतिष्टाम् / अतिषुः / 'चिती 39 संज्ञाने' / चेतति / चिचेत / अचेतीत् / अचेतिष्टाम् / अचेतिषुः / च्युतिर 40 आसेचने'। आसेचनमार्दीकरणम् / आङीषदर्थेऽभिव्याप्तौ च / अस्ति सिचोऽपृक्त इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः / इटईटीति / / इट इति पञ्चमी रात्सस्येत्यतः सस्येति संयोगान्तस्येत्यतो लोप इति चानुवर्तते तदाह / इटः परस्येति // एवञ्च आति स् ई त् इति स्थिते सकारस्य लोपे आति ई त् इति स्थिते सवर्णदीर्घ आतीदिति रूपम् वक्ष्यति / तत्र सलोपस्यासिद्धत्वात् कथं सवर्णदीर्घ इत्यत आह / सिज्लोप एकादेशे सिद्धो वक्तव्य इति। आतिष्टामिति ॥लुङस्तस्। तस्य ताम्। च्ले: सिच। तस्य इटि आटि वृद्धौ षत्वम्। अपृक्तत्वाभावेन ईडभावात् सलोपो न। आतिषुरिति // लुङो झिः। च्ले: सिच् / जुस् इट् आट् वृद्धिः षत्वं रुत्वविसौं / आती: / आतिष्टम् / आतिष्ट / आतिषम्। आतिष्व। आतिष्म / अत्र वृद्धिमाशङ्कितुमाह / वदव्रजेति॥ वद व्रज हलन्तः एषां समाहारद्वन्द्वात् षष्टयेकवचनम्। अङ्गस्येत्यधिकृतम् / सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्तते। तदाह / वदेत्यादिना॥ हलन्तत्वादेव सिद्धे वदव्रजग्रहणन्तु अवादीदवाजीदित्यत्र अतोहलादेर्लघोरिति वृद्धिविकल्पबाधनार्थम्। नेटीति / प्रागुक्तन्नति // वदवजहलन्तस्याच इत्युक्तं नेत्यर्थः / तत्र वदवजयोर्विशिष्य विधानात् हलन्तलक्षणाया एव वृद्धेर्निषेधोऽयम् / हलन्तलक्षणा वृद्धिस्तु अधाक्षीदिल्यादावनिडादौ सिचि चरितार्था / नन्वातीदित्यादौ अकारस्य वृद्धौ सत्यामसत्याञ्च आटा एकादेशे सति रूपे विशेषाभावात् किन्तनिषेधेनेत्याशङ्कयेत्याह / माभवानतीदिति // माझ्योगे आडभावे सति बृद्धिनिषेधः सफल इति भावः / चितीति // ईदित्वं वीदितो निष्ठायां इति इण्णिषेधार्थम् / चेततीति // शपि लघूपधगुणः / चिचेतेति // तिबादेशणल: पित्वेन असंयोगादिति कित्वस्याप्रवृत्तेः न गुणनिषेधः चिचिततुरित्यादौ तु कित्वान्न गुणः / अचेतीदिति // इट ईटीति सलोपः / अचेतिष्टामिति // अपृक्तत्वाभावादीडभावानसिज्लोपः / नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः / च्युतिरिति // अत्र इकारस्य रेफस्य For Private And Personal Use Only