________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 सिद्धान्तकौमुदीसहिता [भ्वादि दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपि। ष्वक्कादीनां पृथग्ग्रहणाज्ज्ञापकात्। 'ह्राद 26 अव्यक्ते शब्दे' / ह्रादते / जह्रादे / 'ह्लादी 27 सुखे च' / चादव्यक्ते शब्दे। हादते / ‘स्वाद 28 आस्वादने' / “पर्द 29 कुत्सिते शब्दे'। गुदरव इत्यर्थः / पर्दते / 'यती 30 प्रयत्ने' / यतते / येते / ‘युतृ 31 जुत 32 भासने' / योतते / युयुते / जोतते / जुजुते / विथ 33 वेथ 34 याचने' / विविथे / विवेथे / 'श्रथि 35 शैथिल्ये' / श्रन्थते / ग्रथि 36 कौटिल्ये' / ग्रन्थते / 'कत्थ 37 श्लाघायाम्' / कत्थते। एधादयोऽनुदात्ततो गताः / अथाष्टात्रिंशत्तवर्गीयान्ता: परस्मैपदिन: / अत 38 सातत्यगमने' / अतति / * अत आदेः' (2248) / आत / आततुः / आतुः / लुङि * आतिस् 'ई' इति स्थिते। स्मिङ इति // अपीति शेषः / ननु स्व शब्दोपतापयोरित्यादीनामपि दन्त्यवकारपरकत्वात् षोपदेशत्वं स्यादित्यत आह / दन्त्यः केवलदन्त्य इति // कुत इत्यत आह / प्वकादीनामिति // अन्यथा दंत्यपरकत्वादेव सिद्धे ष्वक्कादिग्रहणं व्यर्थ स्यादिति भावः / यद्यपि वकतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्टिवुष्चकतीनां षत्वप्रतिषेध इति वार्तिकातल्लाभ इति भावः / हादेति॥ रेफवानयम् / अव्यक्तशब्दः अमनुष्यवाक् / जहाद इति // अभ्यासस्य हूस्वः चुत्वम् / ह्रादीति // लकारवानयम् / श्रीदितोनिष्ठायामिति इण्णेिषधार्थमीत्वम् / स्वादेति // केवलदत्यपरकत्वाभावान्नायं षोपदेशः असिखदत् / पर्देति // गुदरव इत्यर्थः / यतीति // ईदित्वमिण्णिषेधार्थम् / येते इति // अतएकहल्मध्य इत्येत्वाभ्यासलोपौ / युत जुतृ इति ऋदित्वम् नाग्लोपिशास्वृदितामित्याद्यर्थम् / योतत इति // शपि लघूपधगुणः / युयुत इति // असंयोगादिति कित्वान्न गुणः। विवे५ इति // द्वितीयान्ताविमौ। ननु विथ इत्येवास्तु / लघूपधगुणे सति वेथत इत्यस्याविशिष्टत्वादित्यत आह / विविथे, विवेथ इति // वेथूधातोर्विवेथ इति रूपम्। विथधातोस्तु असंयोगादिति कित्वात् गुणाभावे विविथ इति रूपमिति भावः / श्रथीति // द्वितीयान्तः शैथिल्यम् संसनम्। श्रन्थत इति इदित्वान्नुम् / ग्रथीति // द्वितीयान्तः / कौटिल्यम् वक्रीभवनम् / ग्रन्थत इति // इदित्वान्नुम् / कत्थेति // अविद्यमानगुणज्ञापनं श्लाघा / अथाष्टाविंशदिति // अष्टौ च त्रिंशदिति द्वन्द्वः अष्टाधिकात्रिंशदिति वा। यष्टनस्सङ्ख्यायामित्यात्वम् अष्टात्रिंशदिति पाटे तु अष्टेति पृथक्पदम् / परस्मैपदिन इति // अनुदात्तस्वरितभित्वाभावात्छेषात् कर्तरीति परस्मैपदिन एवेति भावः / अतेति // सातत्यगमनं सन्ततगमनम्। लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह / अत आदेशित // इति दीर्घ इति शेषः / तथा च अभ्यासाकारस्य दीर्घ सति सवर्णदीर्घः / तदाह / आतेति // अकारस्य हलमध्यस्थत्वाभावादेत्वाभ्यामलोपौ न / लुङीति // अतधातोर्लुङस्तिपि इतश्चेति इकारलोपे च्ले: सिचि तस्य इडागमे For Private And Personal Use Only