________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 53 ऊर्दाचक्रे / 'कुर्द 21 खुर्द 22 गुर्द 23 गुद 24 क्रीडायामेव' / कूर्दते / चुकूर्दे / खूदते / गूदते / गोदते / जुगुदे / 'षूद 25 क्षरणे' / सूदते / सुषूदे। सेक्सृप्सृस्तृसृजस्तस्त्यान्ये दन्त्याजन्तसादयः / एकाचः षोपदेशाः ध्वस्विस्वस्वजिस्वपस्मिङः // पदस्य उपधाभूतयोरित्यर्थः स्यात् / ततश्च क्विबन्ने ऊर्द इत्यत्रैव स्यात् / ऊर्दत इत्यादी न स्यात् / रेफवकारयोः किम् / पुष्यति / हल्परयोः किम्। चिरिणोति / इकः किं / नर्दति / ऊर्दाञ्चक इति // इजादित्वादाम् / कृञ्चानुप्रयुज्यत इत्यनुप्रयोगः / कुर्देति // गुदेत्यपि पृथग्धातुः / क्रीडायामेवेत्यर्थनिर्देशः / एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति / कृर्दत इति // उपधायाश्चेति दीर्घः / चुकूर्द इति ॥कुहोश्चुरिति चुत्वम् / खूदत इति // उपधायाश्चेति दीर्घः / एवं गूर्दत इति / गोदत इति। शपि लघूपधगुण: / जुगुद इति / असंयोगादिति कित्वान्नगुणः / देति // क्षरणं प्रस्रवणम् / सूदत इति // प्रस्रवतीत्यर्थः / धात्वादेरिति षस्य सः / अलघूपधत्वान्न गुणः। सुषूद इति // धात्वादेरिति षस्य सत्वे लिटि द्वित्वादी इण: परस्यादेशसकारत्वात् षत्वम्। यदि धातुपाठे सकारस्यैव पाठः तर्हि इहादेशसकारत्वाभावात् षत्वं न स्यात् / षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात् षत्वं सूपपादमिति भावः / ननु धातुपाठे के धातवष्षादयः पठिताः, के वा सादयः / पाणिनिकृतषोपदेशपाठस्य इदानीम्परिभ्रष्टत्वादित्याशक्य पाणिनीयपरम्परासिद्धान् षोपदेशान् पठति। सगिति श्लोकेन। दंत्याजन्तसादय एकाचः षोपदेशास्स्युरियन्वयः। दंत्यश्च अच दंत्याचौ तो अन्तौ अव्यवहितपरौ यस्य सः दंत्याजन्तः तथाविधः षः षकारः आदिर्येषान्ते दंत्याजन्तषादयः / दंत्यपरकः अच्परकश्च यः षकारः तदादय एकाचो धातवः इदानीं कृतसत्वास्सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिना उपदिष्टाः प्रत्येतव्या इत्यर्थः / सादय इति पाठेप्येवमेव व्याख्येयम् / अज्दंत्यपराः षादयष्षोपदेशा इति भाष्यम् / षूद क्षरणे इत्यादयः अच्परकषोपदेशाः / ष्टा गतिनिवृत्तावित्यादयस्तु दंत्यपरकषोपदेशाः / दंत्याजन्तेति किम् / स्कुदि आप्रवणे। चुस्कुन्दे / अत्र सकारो न दंत्यपरकः नाप्यच्परकः / एकाचः किम् / सोसूत्रयते। सूत्र वेष्टने, चुरादिरजन्तः अनेकाच् / यद्यप्येकाच इति भाष्ये न दृश्यते / तथापि यविधौ सोसूच्यत इति भाष्यन्तत्र मानमिति भावः / एवश्व साध संसिद्धौ, इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽ पि षोपदेशत्वमेव / ननु सेकृ गती, सृप्ट गतौ, स गतौ, सृज विसर्गे, एते चत्वारः अच्परकसादयः, स्तृञ् आछादने, ऋदन्तः श्रुविकरणः / स्तृञ् आछादने ऋदन्तः श्राविकरणः, स्त्यै शब्दसङ्घातयोः, एते त्रयः दंत्यपरकसादयः / एतेषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाश क्य तद्भिन्नत्वं विशेषणमाह / सेक् सप् मृ स्तृ सृज स्तृ स्त्या न्ये इति // स्त्यै धातोः कृतात्वस्य निर्देशः श्लोके समावेशार्थः / स्त्यै इत्यैकारान्तस्य निर्देशे स्त्यायन्य इत्येकस्याक्षरस्याधिक्यापत्तेः / नन्वेवमपि ध्वक गतौ, अिष्विदा गात्रप्रस्रवणे, प्वद आस्वादने, ध्वञ्ज परिष्वङ्गे, भिष्वप् शये, मिङ् ईषद्धसने, इत्येतेषु सकारस्य दंत्यपरकत्वाभावात् अच्परकत्वाभावाच्च षोपदेशेष्वसङ्ग्रहः स्यादित्यव्याप्तिमाशङ्क्य तानपि संग्रहाति / वक्क् स्विद् स्वद् स्वाञ्ज स्वपि For Private And Personal Use Only