________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 567 प्रकरणम्] बालमनोरमा / भङ्गुरः / भासुरः / मेदुरः / 3142 / विदिभिदिच्छिदेः कुरच् / (3-2-62) विदुरः / भिदुरम् / छिदुरम् / 3143 / इण्नशिजिसर्तिभ्यः करप् / (3-2-163) इत्वरः / इत्वरी / नश्वरः / जित्वरः / सृत्वरः / 3144 / गत्वरश्व / (3-2-164) गमेरनुनासिकलोपोऽपि निपात्यते / गत्वरी। 3145 / जागुरूकः / (3-2-165) जागर्तेरूकः म्यात् / जागरूकः / 3146 / यजजपदशां यङः / (3-2-166) एभ्यो यङन्तेभ्य ऊकः स्यात् / दशामिति भाविना नलोपेन निर्देशः / यायजूकः / जञ्जपूकः / दन्दशूकः / 3147 / नमिकम्पिस्म्यजसकमहिंसदीपो रः / (3-2-167) पञ्चमी / एभ्यः धुरच स्यात् तच्छीलादिग्वित्यर्थः / घचावितौ / भंगुर इति // 'चजोः' इति कुत्वम् / विदिभिदि // तच्छीलादिष्वित्येव / विदेर्शानार्थस्यैव ग्रहणम् , नतु लाभार्थस्य, व्याख्यानादित्याहुः / विदुर इत्यादौ कित्त्वान्न लघूपधगुणः / इण्नशिजि // इण् , नशि, जि, स, एभ्यः करप् स्यात् तच्छीलादिष्वित्यर्थः / कित्त्वान्न गुणः। पित्त्वन्तु तुगर्थम् / गत्वरश्च // गमेरिति // गमेः क्वरप् अनुनासिकलोपश्च निपात्यते इत्यर्थः / झलादिप्रत्ययपरकत्वाभावादनुनासिकलापस्याप्राप्तिः। पित्त्वात्तुक् / गत्वरीति // 'टिड्ढ' इति ङीप् / जागुरूकः // जागृ इत्यस्य जागुरिति पञ्चम्यन्तम्पदम् / तदाह / जागतेरिति // तच्छीलादिष्वित्येव / जागरूक इति // ऋकारस्य गुणः, रपरत्वं / सिद्धरूपन्तु न निपातितम् , उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात् / यजजपदशां यङः // यज, जप, दश, एषां त्रयाणां द्वन्द्रः / पञ्चम्यर्थे षष्ठी / तदाह / एभ्य इति // तच्छीलादिवित्येव / ननु दंशेर्नोपधत्वात् कथन्दशामिति निर्देश इत्यत आह / भाविनेति // ऊकं कृते सति भविष्यतो नलोपस्यात्र निपातनमिति यावत् / यायजूक इति // 'यस्य हल:' इति यलोपः / 'अतो लोपः, दीर्थेऽतिः' इत्यभ्यासस्य दीर्घः / जञ्जपूक इति // 'जपजभदहदशभञ्जपशां च' इत्यभ्यासस्य नुक् / एवन्दन्दशूकः / निपातनान्नकारलोपः / नमिकम्पि // नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप् , एषान्द्वन्द्वात्पञ्चम्येकवचनम् / एभ्यस्सप्तभ्यो रप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थः / अजसधातोः धातुपाठे अदर्शनात् आह / For Private And Personal Use Only