________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 557 3099 / विभाषा गमहनविदविशाम् / (7-2-68) एभ्यो वसोरिडा / जग्मिवान्-जगन्वान् / जन्निवान्-जघन्वान् / विविदिवान-विविद्वान् / विविशिवान-विविश्वान् / विशिना साहचर्याद्विन्दतेग्रहणम् / वेत्तेस्तु विविद्वान् / 'नेडशि कृति' (सू 2981) इतीनिषेधः / 'दृशेश्च' (वा 4452) / ददृशिवान-ददृश्वान् / 3100 / लटः शतृशानचावप्रथमासमानाधिकरणे / (3-2-124) अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः / शबादि। पचन्तं चैत्रं पश्य / 3101 / आने मुक् / (7-2-82) अदन्तस्याङ्गस्य मुगागम: स्यादाने परे / पचमानं चैत्रं पश्य / लडित्यनुवर्तमाने पुनर्लग्रहणमधिकविधानार्थम् / तेन प्रथमासामानाधिकरण्येऽपि कचित् / सन्ब्राह्मणः / 'माङयाक्रोशे इति वाच्यम्' (वा 2109) / 'मा जीवन्यः परावज्ञादुःखदग्धोऽपि जीवति' / 'माङि लुङ्' (सू 2219) इति प्राप्ते एतद्वचनसामर्थ्याल्लट् / 3102 / सम्बोधने च / (3-2-125) हे पचन् / हे पचमान / कानचि यजादित्वात्सम्प्रसारणं, पूर्वरूपं, सवर्णदीर्घः। विभाषा गम // 'विभाषा गमहन' इत्यादि स्पष्टम् / लटः शतृशानचौ // 'वर्तमाने लट्' इति पूर्वसूत्रविहितस्यैव एतौ शतृशानचौ / अनन्तरस्येति न्यायादिति 'वर्तमानसामीप्ये' इत्यादिभाष्ये स्पष्टम् / शतृप्रत्यये शकारऋकारावितौ / पचन्तमिति // पाकानुकूलव्यापाराश्रयमित्यर्थः ‘क्रियाप्रधानमाख्यातम् , सत्वप्रधानानि नामानि' इति सिद्धान्तात् / शतश्शित्त्वेन सार्वधातुकत्वात् शपि 'अतो गुणे' इति पररूपम् / शानचि शचावितौ / आने मुक् // 'अङ्गस्य' इत्यधिकृतम् / 'अतो येयः' इति पूर्वसूत्रादनुवृत्तेन षष्ठ्या विपरिणतेन अता विशेष्यते / तदन्तविधिः / तदाह / अदन्तस्येति // मुकि ककार इत् , उकार उच्चारणार्थः, कित्त्वादन्तावयवः / अनुवर्तमाने इति // 'वर्तमाने लट्' इति पूर्वसूत्रादनुवृत्तस्य लडित्यस्य षष्ठ्या विपरिणामेन उक्तार्थलाभे सतीत्यर्थः / अधिकेति // सूत्राक्षरानारूढस्यापि अर्थस्य लाभार्थमित्यर्थः / सन् ब्राह्मण इति // 'अस भुवि' शतृप्रत्यये शपो लुक् / श्रसोरल्लोपः / माङीति // माडि प्रयुज्यमाने आक्रोशे गम्ये लटश्शतृशानचाविति वक्तव्यमित्यर्थः / मा जीवन्निति // न जीवत्ययम् अनुपकारित्वात् / मृतप्राय इत्यर्थः। मा पचमान इत्यप्युदाहार्यम् / 'लटश्शतृशानचौ' इत्येव सिद्धेः किमर्थमिदमित्यत आह / माङि लुङितीति // सम्बोधने च // लटश्शतृशानचाविति शेषः / प्रथमासमानाधिकरणार्थ आरम्भः / पूर्वसूत्रस्थपुनलैङ्ग्रहणस्य अधिकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थ For Private And Personal Use Only