SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 553 शिवमुपासितः / हरिदिनमुपोषित: / राममनुजातः / गरुडमारूढः / विश्वमनुजीर्णः / पक्षे प्राप्ता गङ्गा तेनेत्यादि / 3087 / क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः। (3-4-76) एभ्योऽधिकरणे क्त: स्यात् / चाद्यथाप्राप्तम् / ध्रौव्यं स्थैर्यम् / "मुकुन्दस्यासितमिदमिदं यातं रमापतेः / भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः // " पक्षे आसेरकर्मकत्वात्कतरि भावे च / आसितो मुकुन्दः / आसितं तेन / गत्यर्थेभ्यः कर्तरि कर्मणि च / रमापतिरिदं यातः / तेनेदं यातम् / भुजे: कर्मणि / अनन्तेनेदं भुक्तम्। कथं 'भुक्ता ब्राह्मणाः' इति / भुक्तमस्ति एषामिति मत्वर्थीयोऽच् / वर्तमाने इत्यधिकृत्य / अतो नाकर्मकत्वादिह प्राप्तिः / शिवमुपासित इति / / शिवम्परिचरितवानित्यर्थः / उपवेशनार्थकत्वे अकर्मकत्वेऽपि इह उपसर्गवशनार्थान्तरे सकर्मकत्वादकर्मकेत्यनेन न प्राप्तिरिति भावः / हरिदिनमुपोषित इति // ‘वसतिक्षुधोः' इति इट् / यजादित्वात्सम्प्रसारणम् / 'शासि' इति षः / हरिदिने न भुक्तवानित्यर्थः / 'उपान्वध्यावसः' इति हरिदिनकर्म / ततश्चाकर्मकत्वाभावादप्राप्तिः। राममनुजात इति / / अनुकृतवानित्यर्थः / अनुसृत्य जातवानिति वा / ततश्चाकर्मकत्वाभावादप्राप्तिः / गरुडमारूढ इति // उपर्याक्रान्तवानित्यर्थः / विश्वमनुजीर्ण इति // हतवानित्यर्थः / व्याप्तवानिति वा / अकर्मकत्वाभावादप्राप्तिः / जृधातोः कर्तरि क्तः / 'ऋतः' इति इत्त्व, रपरत्वं 'हलि च' इति दीर्घः / 'रदाभ्याम्' इति नत्वं, णत्वम् / पक्षे इति // कर्तरि प्रत्ययाभावपक्षे इत्यर्थः। तोऽधिकरणे च // ध्रौव्यं गतिः प्रत्यवसानञ्च अर्थो येषामिति विग्रहः / ध्रौव्यार्थेभ्यः गत्यर्थेभ्यः प्रत्यवसानार्थेभ्यश्चेति यावत् / चाद्यथाप्राप्तमिति // कर्मकर्तृभावेष्वपि यथासम्भवमित्यर्थः / ध्रौव्यमित्यस्य विवरणं, स्थैर्यमिति / स्थिरीभवनम् , उपवेशनशयनादिक्रियेति यावत् / मुकुन्दस्यासितमिद. मिति // श्लोकोऽयम् / आस्यते अस्मिन्नित्यासितम् , आसनमित्यर्थः। ध्रौव्यार्थस्योदाहरणमिदम् / इदं यातं रमापतेरिति / / गत्यर्थस्योदाहरणम् / यायते गम्यते अस्मिन्निति यातं, मार्ग इत्यर्थः / भुक्तमेतदनन्तस्येति // भुज्यते अस्मिन्निति भुक्तम् / भोजनस्थानमित्यर्थः / 'अधिकरणवाचिनश्च' इति त्रिष्वपि कर्तरि षष्ठी / पक्षे इति // अधिकरणे प्रत्ययाभावपक्षे इत्यर्थः / सेरकर्मकत्वादिति // ततश्च न कर्मणि क्त इत्यर्थः / आसितो मुकुन्द इति // आसितवानित्यर्थः / आसितं तेनेति // भावे उदाहरणम् / गत्यर्थेभ्य इति // तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थः / 'लः कर्मणि च' इत्यत्रादर्शनादिति भावः / भुजेः कर्मणीति // भक्षणार्थात्कर्मणि क्तः, न तु भावे / सकर्मकेभ्यो भावे प्रत्ययस्य 'लः कर्मणि' इत्यत्रादर्शनात् / नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः / कथमिति // भुजेः कर्तरि काभावस्योक्तत्वादिति भावः / समाधते / भुक्त. मस्त्येषामिति // अत्र गत्यर्थेभ्यो भावेऽपि तप्रत्ययोऽस्त्येव / अविशेषात् 'अजय सङ्गतम्' For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy