________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 552 सिद्धान्तकौमुदीसहिता (कृदन्त क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च / क्षीणायुभव / क्षितायुर्वा / क्षीणोऽयं तपस्वी, क्षितो वा / 3082 / निनदीभ्यां स्नातेः कौशले / (8-3-89) आभ्यां स्नाते: सस्य ष: स्यात्कौशले गम्ये / निष्णातः शास्त्रेषु / नद्यां स्नातीति नदीष्ण: / 'सुपि-' (सू 2916) इति कः / ___3083 / सूत्रं प्रतिष्णातम् / (8-3-90) प्रते: स्नाते: षत्वम् / प्रतिष्णातं सूत्रम् / शुद्धमित्यर्थः / अन्यत्र प्रतिस्नातम् / 3084 / कपिष्ठलो गोत्रे / (8-3-91) कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः। गोत्रे' किम् / कपीनां स्थलं कपिस्थलम् / 3085 / विकुशमिपरिभ्यः स्थलम् / (8-3-96) एभ्यः स्थलस्य सस्य ष: स्यात् / विष्ठलम् / कुष्ठलम् / शमिष्ठलम् / परिष्ठलम् / 3086 / गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुह जीर्यतिभ्यश्च / (3-4-72) एभ्यः कर्तरि क्तः स्याद्भावकर्मणोश्च / गङ्गां गतः / गङ्गां प्राप्तः / म्लान: सः / लक्ष्मीमाश्लिष्टो हरिः / शेषमधिशयित: / वैकुण्ठमधिष्ठितः / ण्यदर्थो भावकर्मणी इत्युक्तम् / आक्रोशे उदाहरति / क्षीणायुर्भवेति // ‘गत्यर्थाकर्मक' इति कर्तरि क्तः। दैन्ये उदाहरति / क्षीणोऽयं तपस्वीति / / कृश इत्यर्थः। निनदीभ्याम् // सस्य षः स्यादिति // ‘सहेस्साडस्सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते, 'अपदान्तस्य मूर्धन्यः' इत्यप्यधिकृतमिति भावः / निष्णात इति // कुशल इत्यर्थः। नदीष्ण इति // नद्याङ्कुशलं स्नातीति विग्रहः / सुपीति क इति // 'सुपि स्थः' इत्यत्र सुपीति योगविभागात् क इत्यर्थः / गत्यर्थ / / गत्यर्थ, अकर्मक, श्लिष, शीङ्, स्था, आस, वस, जन, रुह, जीर्यति, एषान्दशानान्द्वन्द्वः / 'लः कर्मणि च भावे च' इत्यतः भावे कर्मणीति ‘आदिकर्मणि क्तः कर्तरि च' इत्यतः कर्तरि इति चानुवर्तते / तदाह / एभ्य इत्यादिना // कर्तरीत्येवानुवृत्तौ भावकर्मणोर्न स्यादिति तयोरप्यनुवृत्तिः / गङ्गाङ्गत इति // कर्तरि क्तः / गङ्गाम्प्राप्त इति // 'आप्ल व्याप्तौ' उपसर्गवशाद्गतौ वर्तते / अकर्मकादुदाहरति / म्लान इति // क्षीण इत्यर्थः / 'संयोगादः' इति निष्ठानत्वम् / आश्लिष्ट इति // आलिङ्गितवानित्यर्थः / ननु अकर्मकत्वादेव सिद्धे शीडादीनां पुनर्ग्रहणं व्यर्थमित्यत आह / शेषमधिशयित इति // शेषे शयितवानित्यर्थः / 'अधिशीथासाम्' इति शेषः कर्म / अतो नाकर्मकत्वादिह प्राप्तिरिति भावः / वैकुण्ठमधिष्ठित इति // वैकुण्ठे स्थितवानित्यर्थः / 'अधिशीस्थासाम्' इति वैकुण्ठः कर्म / For Private And Personal Use Only