________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 3066 / णेरध्ययने वृत्तम् / (7-2-26) ण्यन्ताद्वृतेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे / वृत्तं छन्दः, छात्रेण सम्पादितम् , अधीतमिति यावत् / अन्यत्र तु वर्तिता रज्जुः / __3067 / शृतं पाके / (6-1-27) श्रातिश्रपयत्योः क्ते शृभावो निपात्यते क्षीरहविषोः पाके / शृतं क्षीरं स्वयमेव विक्लिन्नं पकं वेत्यर्थः / क्षीरहविया॑मन्यत्तु श्राणं-पितं वा / 3768 / वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः / (7-2-27) एते णिचि निष्ठान्ता वा निपात्यन्ते / पक्षे, दमित: / शमितः / पूरितः / दासितः / स्पाशितः / छादित: / ज्ञापित: / गम्ये अभः परः अर्दिरनिट्क इत्यर्थः। सामीप्य इत्येव तु नोक्तम् / अनतिदूरस्य असङ्ग्रहापत्तेः। तत्सूचयन्नाह / नातिदूरमिति // णेरध्ययने // णिलुक् चेति // णिलोपे तु लघूपधगुणः स्वादिति भावः / अधीयमान इति // सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्तः इति भावः / शृतम्पाके // 'श्रा पाके' घटादिः / तस्माद्धेतुमण्णिचि पुकि मित्त्वाद्रखे श्रपि इति भवतीति स्थितिः / श्रातिश्रपयत्योरिति // अण्यन्तस्य ण्यन्तस्य च श्राधातोरित्यर्थः / क्षीरहविषो. रिति // एतच्च वार्तिकाल्लभ्यते / अण्यन्तं व्याचष्टे / स्वयमेव विक्लिन्नमिति // श्राधातुरण्यन्तः पाक वर्तते / पाकश्चात्र विक्लित्तिरव विवक्षिता। न तु तदनुकूलव्यापारोऽपि / तथाच श्राधातोर्विक्लित्तावकर्मकत्वात् ‘गल्याकर्मक' इति कर्तरि क्तः / तथाच क्षीरं विक्लित्याश्रयमिति फलितम् / ततो णिचि विक्लित्त्यनुकूलव्यापारार्थकपचिना समानार्थकात् श्रपि इत्यस्मात् कर्मणि क्तप्रत्यये फलितमाह / पक्कमिति // एतच्च भाष्यकैयटयोः स्पष्टम् / "क्षीराज्यहविषां शृतम्' इत्यमरस्य तु प्रमाद एव, 'क्षीरहविषोः' इति वार्तिकविरोधात् / वा दान्तशान्तपूर्णदस्तस्पष्टछन्नज्ञप्ताः // 'णेरध्ययने वृत्तम्' इत्यतो रित्यनुवर्तते। 'दमु शमु उपशमे' ण्यन्ताभ्यामिडभावो निपात्यते / ‘अनुनासिकस्य' इति दीर्घः / णिलोपस्तु न स्थानिवत् / निपातनादीर्घविधौ तनिषेधाच्च / दान्तः, शान्तः / 'पूरी आप्यायने' ण्यन्तात् क्तः, इडभावो निपात्यते, णिलोपः। रात्परत्वानत्वम् , णत्वम् , पूर्णः / एतेन 'न ध्याख्याप्रमूर्च्छि' इत्येव सिद्धे पूर्णग्रहणं व्यर्थमित्यपास्तम् , पूरीधातोर्ण्यन्तात् पूर्णरूपार्थत्वात् / 'दसु उपक्षय' ण्यन्तात् इडभावो निपात्यते, उपधावृद्ध्यभावश्च / णिलोपः। 'स्पश बाधने' ण्यन्तात् क्तः, इडभावो निपात्यते उपधावृद्ध्यभावश्च, णिलोपः / स्पष्टम् / 'छद अपवारणे' ण्यन्तात् क्तः / इडभावो वृद्ध्यभावश्च निपात्यते / णिलोपः, 'रदाभ्याम्' इति नत्वम् , छन्नः / 'ज्ञप मिच्च' इति चुरादिण्यन्तात् क्तः। “इडभावो वृध्यभावो णिलोपः” इति कैयटः, ज्ञप्तः / पक्ष इति // निपातनाभावपक्ष इत्यर्थः। दमितः, शमित इति // अमन्तत्वेन मित्त्वाद्रस्वः। For Private And Personal Use Only