________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त स्थूले बलवति च निपात्यते / 'दृह दृहि वृद्धौ' / क्तस्येडभावः, तस्य ढत्वम् , हस्य लोपः, इदितो नलोपश्च / दृहितो-दंहितोऽन्यः / 3061 / प्रभौ परिबृढः / (7-2-21) 'बृह बृहि वृद्धौ' / निपातनं प्राग्वत् / परिबृहित:-परिबृंहितोऽन्यः / 3062 / कृच्छगहनयोः कषः / (7-2-22) कषो निष्ठाया इण्न स्यादेतयोरर्थयोः / कष्टं दुःखं तत्कारणं च / ' स्यात्कष्टं कृच्छ्रमाभीलम्' / कष्टो मोहः / कष्टं शास्त्रम् / दुरवगाहमित्यर्थः / कषितमन्यत् / ___3063 / घुषिरविशब्दने / (7-2-23) घुषिनिष्ठायामनिट् स्यात् / घुष्टा रज्जुः / ‘अविशब्दने' किम् / घुषितं वाक्यम् / शब्देन प्रकटीकृताभिप्रायमित्यर्थः / 3064 / अर्दैः सन्निविभ्यः / (7-2-24) एतत्पूर्वादर्देनिष्ठाया इण्न स्यात् / समर्णः / न्यर्णः / व्यर्णः / अदितोऽन्यः / 3065 / अभेश्वाविदूर्ये / (7-2-25) अभ्यर्णम् / नातिदूरमासन्नं वा / अभ्यर्दितमन्यत् / निष्ठातकारस्य ढत्वन्निपात्यते इत्यर्थः / हस्य लोप इति // निपात्यते इति शेषः / इदित इति // अनिदितस्तु नलोपस्सिद्ध एवेति भावः / ननु हस्य ढत्वे कृते 'झषस्तथो?ऽधः' इति तकारस्य धत्वे तस्य टुत्वेन ढत्वे 'ढो ढे' इति ढलोपे दृढ इति सिद्धम् / ततश्च इडभाव एव निपात्यताम् , न तु हकारलोपो ढत्वञ्चेति चेत् / मैवम् / तथाहि सति द्रढीयानित्यादौ ढलोपस्यासिद्धत्वेन ऋकारस्य सयोगपरतया लघुत्वाभावात् ‘र ऋतो हलादेर्लघोः' इति रभावो न स्यात् / अत्र हकारलोपस्य ढत्वस्य च निपातने तु ऋकारस्य न संयोगपरकत्वम् / अस्य हलोपस्य साप्तमिकत्वेन असिद्धत्वाभावात् इति भाष्ये स्पष्टम् / प्रभौ परिबृढः // प्राग्वदिति // तकारढत्वस्य हलोपस्य चेत्यर्थः / कृच्छ्गहनयोः // कृच्छ्रशब्दो दुःखे तत्कारणे च वर्तते / कष्टं दुःखं तत्कारणश्चेति // “स्यात्कष्टकृच्छ्रमाभीलम्" इत्यमरकोशवाक्यम् / दुःखकारणे उदाहरति / कष्टो मोह इति // गहने उदाहरति। कष्टं शास्त्रमिति // गहनशब्द विवृणोति / दुरवगाहमिति // घुषिरविशब्दने // घुष्टा रज्जुरिति // उत्पादितेत्यर्थः / आयामितेति वा / शब्देन अभिप्रायप्रकाशनं विशब्दनम्। तदाह / शब्देनेति // अः सन्निविभ्यः // समर्ण इति // सम् अ त इति स्थिते ‘रदाभ्याम्' इति निष्टातस्य पूर्व दकारस्य च नत्वम् , णत्वम् / अभेश्चाविदूर्ये // अविदूरस्य भावः आविर्यम् / तस्मिन् For Private And Personal Use Only