________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 544 सिद्धान्तकौमुदीसहिता [कृदन्त त्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा / तेन ‘धावितमिभराजधिया' इत्यादि / -- यस्य विभाषा' (सू 3025) इत्यत्रैकाच इत्येव / दरिद्रितः / 3058 / क्षुब्धस्वान्तध्वान्तलमम्लिष्टविरिन्धफाण्टबाढानि मन्थमनस्तमःसत्ताविस्पष्टस्वरानायासभृशेषु / (7-2-18) क्षुब्धादीन्यष्टावनिटकानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु / द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः, मन्थनदण्डश्च / क्षुब्धो मन्थश्चेत् / स्वान्तं मनः / ध्वान्तं तमः / लग्नं सक्तम् / निष्ठानत्वमपि निपातनात् / म्लिष्टमविस्पष्टम् / विरिब्धः स्वरः / म्लेच्छ' 'रेभृ' अनयोरुपधाया इत्त्वमपि निपात्यते / फाण्टम् अनायाससाध्यः कषायविशेषः / माधवस्तु नवनीतभावाप्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह / बाढं भृशम् / अन्यत्र तु इत्यनित्यत्वज्ञापनेनेत्यर्थः / धावितमिति // ‘स्वरतिसूति' इति धूलो वेट त्वेऽपि 'यस्य विभाषा' इति इनिषेधो नेति भावः / ननु दरिद्राधातोः 'तनिपतिदरिद्राणामुपसङ्ख्यानम्' इति सनि वेटकत्वात् 'यस्य विभाषा' इति निष्ठायामिनिषेधस्स्यादित्यत आह / यस्य विभाषे. त्यति / / क्षुब्धस्वान्त // क्षुब्ध, स्वान्त, ध्वान्त, लग्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ, एषामष्टानां द्वन्द्वात्प्रथमाबहुवचनम् / मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास, भृश, एषामष्टानां द्वन्द्वात्सप्तमी / यथासङ्ख्यमन्वयः / समुदायेनेति / / मन्थादिष्वेते रूढाः / अवयवार्थाभिनिवेशो न कर्तव्य इत्याह / द्रवद्रव्येति // अत्र याज्ञिकप्रसिद्धिरेव शरणीकर्तव्या / मन्थनदण्डश्चेति // “वैशाखमन्थमन्थानमन्थानो मन्थदण्डके" इत्यमरः / क्षुब्ध इति // 'क्षुभ सञ्चलने' अस्मात् क्तः, इडभावो निपात्यते / 'झषस्तथोः' इति धः, जश्त्वम् / स्वान्तमिति // स्वनधातोः क्तः / 'अनुनासिकस्य क्वि' इति दीर्घः, निपातनानेट / "स्वान्तं हृन्मानसं मनः" इत्यमरः / ध्वान्तं तम इति // ध्वनेः क्तः / 'अनुनासिकस्य कि' इति दीर्घः / “अन्धकारोऽस्त्रियां ध्वान्तन्तमिस्रं तिमिरं तमः” इत्यमरः। लग्नं सक्तमिति // सम्बद्धमित्यर्थः / लगेः क्तः, इडभावः / तत्र रदाभ्यां परत्वाभावात् कथं निष्ठानत्वमित्यत आह / निष्ठानत्वमपि निपातनादिति // मिलष्टमविस्पष्टमिति // इडभावे ‘ब्रश्च' इति षः। तकारस्य टुत्वेन टः / “अथ म्लिष्टमविस्पष्टम्” इत्यमरः / विरिब्धः स्वर इति // स्वरविशेषे इत्यर्थः / 'रेभृ शब्दे' अस्मात् क्तः, इडभावे 'झषस्तथोर्धः' इति धः / उभयत्र धातुस्वरूपं प्रदर्शयन् आह / म्लेच्छ रेभृ अनयोरिति // इत्त्वमपीति / / इडभावश्चेत्यर्थः / फाण्टमिति / / फणेः क्तः, इडभावः, निष्ठातस्य टत्वञ्च निपात्यते / तस्यासिद्धत्वात् 'अनुनासिकस्य' इति दीर्घः / “अनायासकृतं फाण्टम्" इत्यमरः / वृत्तिकृन्मतमाह / कषायविशेष इति // “यदशृतमपिष्टं च कषायमुदकसंसर्गमात्राद्विभक्तरसमीषदुष्णन्तत्फाण्टमित्युच्यते” इति वृत्तौ स्थितम् / वेदभाष्ये आहेति // “तद्वै नवनीतम्भवति घृतं वै For Private And Personal Use Only