________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 539 प्रकरणम्] बालमनोरमा / 3039 / श्वीदितो निष्ठायाम् / (7-2-14) श्वयतेरीदितश्च निष्ठाया इण्न / उन्न:-उत्तः / त्राण:-त्रातः / घ्राण:घ्रातः / ह्रीण:-ह्रीतः। 3040 / न ध्याख्यापृमूछिमदाम् / (8-2-57) ___ एभ्यो निष्ठातस्य नत्वं न / ध्यात: / ख्यातः / पूर्तः / ‘राल्लोप:' / मूर्तः / मत्तः। 3041 / वित्तो भोगप्रत्यययोः / (4-2-58) विन्दतेनिष्ठान्तस्य निपातोऽयं भोग्ये प्रतीते चार्थे / वित्तं धनम् / वित्तः पुरुषः / 'अनयोः' किम् , विन्नः / विभाषा गमहन-' (सू 3099) इति कसौ वेदत्वादिह नेट् / 3042 / भित्तं शकलम् / (8-2-59) भिन्नमन्यत् / भावः / उन्दीति // उदाहरणसूचनम् / श्वीदितो निष्ठायाम् // श्वि, ईदित् अनयोस्समाहारद्वन्द्वात्पञ्चमी / 'नेडशि' इत्यतो नेडित्यनुवर्तते / तदाह / श्वयतेरिति // न ध्याख्या // पञ्चम्यर्थे षष्ठी / तदाह / एभ्य इति // ध्यात इति // ध्यैधातोः क्तः ‘आदेचः' इत्यात्वम् / अत्र 'संयोगादेरातः' इति प्राप्तनत्वन्न / ख्यात्त इति // ख्यात्रादेशपक्षे यण्वत्त्वात् 'संयोगादेरातः' इति प्राप्तन्नत्वन्न / ख्शादेशस्य शस्य यत्वे तु यस्य णत्वप्रकरणगतस्यासिद्धत्वाद्यण्वत्त्वाभावात् ‘संयोगादेरातः' इति नत्वस्य न प्रसक्तिः। स्वतस्सिद्धख्याधातोस्तु आर्धधातुके प्रयोगो नास्त्येवेति ख्याग्रहणं व्यर्थमेव / पूर्त इति // पृधातोः क्तः श्रयुकः किंति' इति नेट् 'उदोष्ठ्यपूर्वस्य' इति उत्त्वं, रपरत्वम् , इह 'रदाभ्याम्' इति प्राप्तनत्वन्न / मुर्छाधातोः क्ते आह / राल्लोप इति // छस्य लोप इति भावः / मूर्त इति // 'आदितश्च' इति नेट् / छलोपे 'रदाभ्याम्' इति प्राप्तन्नत्वन्न / हलि च' इति दीर्घः / मत्त इति // 'मदी हर्षग्लेपनयोः' अस्मात् क्तः 'श्वीदितः' इति नेट / अत्र ‘रदाभ्याम्' इति प्राप्तं नत्वन्न / वित्तो भोग // भुज्यत इति भोगः भोग्यम् / प्रतीयते इति प्रत्ययः प्रख्यातः / अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् / तदाह / विन्दतेरिति // निपातोऽयमिति // 'नुदविदोन्दी' इति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः / तस्य भोगप्रत्यययोः कदाऽपि नत्वन्नेत्यर्थः / प्रतीते इति // प्रख्याते इत्यर्थः / वित्तः पुरुष इति // प्रख्यात इत्यर्थः / विन्न इति // लब्धश्चोरादिरित्यर्थः / अत्र ‘यस्य विभाषा' इति इनिषेधमुपपादयति / विभाषा गमेति // एकाच इति निषेधाचेत्यपि बोध्यम् / भित्तं शकलम् // शकले वाच्ये भिदेः कस्य नत्वाभावो निपात्यते / For Private And Personal Use Only