________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 535 श्यैङो निष्ठातस्य न: म्यादस्पर्शेऽर्थे / 'हल:' (सू 2559) इति दीर्घः / शीनं घृतम् | ‘अस्पर्श' किम् / शीतं जलम् / 'द्रवमूर्तिस्पर्शयोः' किम् / संश्यानो वृश्चिक: शीतात्सङ्कुचित इत्यर्थः / ___3022 / प्रतेश्च / (6-1-25) प्रतिपूर्वस्य श्यः सम्प्रसारणं स्यानिष्ठायाम् / प्रतिशीन: / ___ 3023 / विभाषाभ्यवपूर्वस्य / (6-1-26) श्यः सम्प्रसारणं वा स्यात् / अभिश्यानम्-अभिशीनं घृतम् / अवश्यान:-अवशीनो वृश्चिक: / व्यवस्थितविभाषेयम् / तेनेह न / समवश्यानः / 3024 / अञ्चोऽनपादाने / (8-2-48) अञ्चो निष्ठातस्य नः स्यान्न त्वपादाने / 3025 / यस्य विभाषा / (7-2-15) यस्य क्वचिद्विभाषयेड्रिहितस्ततो निष्ठाया इण्न स्यात् / 'उदितो वा' पादिकत्वात् / शीनं घृतमिति // घनीभूतमित्यर्थः / धातूनामनेकार्थत्वात् / यद्यपि घृतेऽप्यनुष्णः शीतस्पर्शोऽस्त्येव / तथापि शीताख्यस्पर्शविशेषः एव विवक्षितः इति भावः / अस्पर्श किमिति // श्यैङो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः / शीतञ्जलमिति // शीतस्पर्शवदित्यर्थः / अत्र 'द्रवमूर्ति' इति सम्प्रसारणमेव, न तु निष्ठानत्वमित्यर्थः / एवञ्च 'द्रवमूर्तिस्पर्शयोः' इत्यस्य स्पर्शे इदमुदाहरणम् / 'श्योऽस्पर्श' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम् / सूत्रयोः स्पर्शशब्दः प्रधानभूने गुणभूने च वर्तते / तत्र गुणभूते विशेष्यनिनः / शीताः आपः शीतं जलमित्यादि। यदा तु स्पर्शविशेषो गुणः प्राधान्येन विवक्षितः तदा क्लीबत्वमेव / “शीतगुणे" इत्यमरः। सम्प्रसारणविधौ पृच्छति / द्रवमूर्तिस्पर्शयोः किमिति // संश्यान इति // अत्र स्पर्शस्याप्रतीतेः न सम्प्रसारणम् / नत्वन्तु भवत्येवेति भावः / प्रतेश्च // द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि सम्प्रसारणप्राप्त्यर्थमिदम् / प्रतिशीन इति // प्रतिगत इत्यर्थः / अत्र 'श्योऽस्पर्श' इति नत्वम् / विभाषा // श्यैङ इति शेषः / सम्प्रसारणं वा स्यादिति // शेषपूरणमिदम्। द्रवमूर्तिस्पर्शयोर्नित्यं सम्प्रसारणे प्राप्ते ततोऽन्यताप्राप्ते विभाषेयम् / अभिश्यानं धृतमिति // अत्र द्रवमूर्ती सम्प्रसारणविकल्पः। अवश्यानः-अवशीनः वृश्चिक इति // अत्र द्रवमूर्तिस्पर्शाभावेऽपि सम्प्रसारणविकल्पः / समवश्यान इत्यत्रापि सम्प्रसारणविकल्पमाशङ्कय आह / व्यवस्थितेति // अञ्चोऽनपादाने / न त्वपादाने इति // अपादानसमभिव्याहारे असतीत्यर्थः / यस्य विभाषा // यस्येति / / यस्मादित्यर्थः / निष्ठाया इन स्यादिति // 'श्वीदितः' इत्यतो निष्ठायामिति 'नेडशि' इत्यतो नेडिति चानुवर्तत इति भावः / नन्वचेनित्यं सेटकत्वात् कथन्तस्य क्वचिद्वेट्कत्वमित्यत आह / उदितो वेति // For Private And Personal Use Only