________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 530 सिद्धान्तकौमुदीसहिता [कृदन्त कृतवानित्यवाण न / कृञ एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः / अत्र न किम् / भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न किप् / स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे किप् / शास्त्रकृत् / भाष्यकृत् / 3000 / सोमे सुञः / (3-2-90) सोमसुत् / चतुर्विधोऽत्र नियम इति काशिका / एवमुत्तरसूत्रेऽपि / 3001 / अग्नौ चेः। (3-2-91) अग्निचित् / 3002 / कर्मण्यग्न्याख्यायाम् / (3.2-92) कर्मण्युपपदे कर्मण्येव कारके चिनोते: किप स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् / श्येन इव चित: श्येनचित् / 3003 / कर्मणीनि विक्रियः / (3-2-93) कर्मण्युपपदे विपूर्वात्क्रीणातेरिनि: स्यात् / 'कुत्सितग्रहणं कर्तव्यम्' (वा 2047) / सोमविक्रयी / घृतविक्रयी / 3004 / दृशेः क्वनिप् / (3-2-94) कर्मणि भूत इत्येव / पारं दृष्टवान् पारदृश्वा / सुकर्मादिषु भूत एव कृञ इति, त्रिविध इत्यर्थः / अण् नेति // क्तवतुस्तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृतेरिति भावः / स्वादिष्वेवेति // सुकर्मादिषु पञ्चस्वित्यर्थः / सोमे सुञः // सोमे कर्मण्युपपदे भूते सुनोतेः किबित्यर्थः / चतुर्विध इति // पूर्ववयाख्येयम् / एवमिति // 'अग्नौ चेः' इत्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः / अग्नौ चेः॥ अग्नौ कर्मण्युपपदे भूतार्थवृत्तेचिनोतेः विप्स्यादित्यर्थः / अग्निचिदिति // अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः / कर्मण्यग्न्याख्यायाम् // कर्मणीत्यनुवृत्तमुपपदसमर्पकम् / अत्रत्यन्तु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम् / तथा चात्र कर्तरीति न सम्बध्यते / तदाह / कर्मण्युपपदे इत्यादि // चिनोतेरिति // भूतार्थादित्यपि बोध्यम् / श्येन इवेति // श्येनशब्दः श्येनसदृशे लाक्षणिक इति भावः / श्येनाकृतिक इाते यावत् / कर्मणीनि विक्रियः // इनि इत्यविभक्तिकम् / विपूर्वस्य क्रीब्धातोर्विक्रिय इति पञ्चम्यन्तम् / कुत्सितेति // कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः / सोमविक्रयीति // सोमद्रव्यश्च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः / दृशेः क्वनिप् // 'आतो मनिनक्कनिन्वनिपश्च, अन्येभ्योऽपि दृश्यन्ते' इत्येव क्वनिपि सिद्धे तत्सहचरित. मनिनादिव्यावृत्त्यर्थमिदम् / सोपपदाणादिबाधनार्थश्च / निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवात्र For Private And Personal Use Only