________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 529 2996 / करणे यजः / (3-2-85) करणे उपपदे भूतार्थाद्यजेणिनि: स्यात्कर्तरि। सोमेनेष्टवान् सोमयाजी / अग्निष्टोमयाजी। 2997 / कर्मणि हनः / (3-2-86) पितृव्यघाती / कर्मणीत्येतत् 'सहे च' (सू 3006) इति यावदधिक्रियते। 2998 / ब्रह्मभ्रूणवृत्रेषु विप् / (3-2-87) एषु कर्मसूपपदेषु हन्तेर्भूते क्विप् स्यात् / ब्रह्महा / भ्रूणहा / वृत्रहा / 'विप् च' (सू 2983) इत्येव सिद्धे नियमार्थमिदम् / ब्रह्मादिष्वेव, हन्तेरेव, भूत एव, क्विबेवेति चतुर्विधोऽत्र नियम इति काशिका / ब्रह्मादिष्वेव किबेवेति द्विविधो नियम इति भाष्यम् / __ 2999 / सुकर्मपापमन्त्रपुण्येषु कृञः। (3-2-89) सुकर्मादिषु च कृत्रः किप्स्यात् / त्रिविधोऽत्र नियम इति काशिका / सुकृत् / कर्मकृत् / पापकृत् / मन्त्रकृत् / पुण्यकृत् / किबेवेति नियमात्कर्म व्याख्यानमेव शरणम् / करणे यजः // सोमेनेति // सोमाख्यलताविशेषरसेन यागं कृतवानित्यर्थः। सोमलतारसद्रव्यकेन यागेन अपूर्वमुत्पादितवानिति मीमांसकाः। एतच्च द्विती. यस्य द्वितीये द्रव्यसंयोगाचोदना पशुसोमयोः-इत्यधिकरणे अध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चित. मस्माभिः / अग्निष्टोमयाजीति // अग्निष्टोमाख्ययागेन अपूर्वम्भावितवानित्यर्थः / कर्मणि हनः // कर्मण्युपपदे भूतार्थात् हनेणिनिः स्यात् / पितृव्यघातीति // पितृव्यं हतवानित्यर्थः / 'हनस्तः' इति तः, 'हो हन्तेः' इति हस्य घः / ब्रह्मभ्रूणवृत्रेषु विप् // पूर्वसूत्रात्कर्मग्रहणानुवृत्तेराह / कर्मस्विति // हन्तेर्भूते इति // भूतार्थवृत्तेर्हन्तेरित्यर्थः / चतुर्विध इति // पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाचतुर्वपि निवेश इति भावः / तत्र ब्रह्मादिष्वेव हन्तेरिति नियमात्पुरुष हतवानित्यत्र न विप् / ब्रह्मादिषु हन्तेरेवेति नियमात् ब्रह्म अधीतवानित्यत्र न विप् / ब्रह्मादिषु हन्तेभूतकाले एवेति नियमात् ब्रह्म हन्ति हनिष्यति वेत्यत्र न क्विप् / ब्रह्म हतवानित्यत्र अण् न भवति, किन्तु 'ब्रह्मभ्रूण' इति क्किबेव / निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेः / द्विविध इति // उभयतो नियमोऽयम् / ब्रह्मादिष्वेवेति क्विबेवेति च भाष्यमित्यर्थः / एवञ्च हन्तेरेव भूत एवेति नियमद्वयमुपेक्ष्यमिति भावः / सुकर्म // सु, कर्म, पाप, मन्त्र, पुण्य, एषां पञ्चानां द्वन्द्वः / त्रिविध इति // सुकर्मादिषु भूते कृञः विवेवेति, सुकर्मादिषु भूते कृञ एव क्विबिति, 67 For Private And Personal Use Only