________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 528 सिद्धान्तकौमुदीसहिता [कृदन्त नू, नरम्मन्यः / भुवम्मन्यः / श्रियमात्मानं मन्यते श्रिमन्यं कुलम्' / भाष्यकारवचनाच्छ्रीशब्दस्य ह्रस्वो मुममोरभावश्च / __ 2995 / भूते / (3-2-84) अधिकारोऽयम् / वर्तमाने लट्' (सू 2151) इति यावत् / इत्योकारस्य आकार इति भावः / अम्प्रत्ययवदित्यस्य प्रयोजनान्तरमाह / वांशसोरिति // स्त्रियम्मन्य इति // स्त्रियमात्मानम्मन्यते इत्यर्थे मनेः खशि श्यन् / सुपो लुक् / स्त्रीशब्दात् ‘वाम्शसोः' इति इयविकल्पः / अत्र यकारादकारश्रवणार्थम् अविधिः / मुमि तु अकारो न श्रूयेत / स्त्रीम्मन्य इति // इयङभावपक्षे 'अमि पूर्वः' / अम्प्रत्ययवदित्यस्य प्रयोजनान्तर माह। नृ नरम्मन्य इति // नृ इत्यविभक्तिकम् उदाहरणे नृशब्दस्य समावेशसूचनार्थम् / नरमात्मानम्मन्यते इत्यर्थे मनेः खश , श्यन् , सुपो लुक् , नृशब्दादम् अम्प्रत्ययवदित्यतिदेशात् 'ऋतोऽङि' इति गुणः। अत्रापि रेफादकारश्रवणार्थ अम्विधिः। मुमि त्वकारो न श्रूयेत। अम्प्रत्ययवदित्यस्य प्रयोजनान्तरमाह / भुवम्मन्य इति // भुवमात्मानम्मन्यते इत्यर्थे मनेः खश् , श्यन् , सुपो लुक् / भूशब्दादम् , अम्प्रत्ययवदित्यतिदेशात् 'आचि श्नुधातु' इत्युवङ् / अतिदेशाभावे तु उवङ् न स्यात् , तस्याजादिप्रत्यये विधानात् / श्रिमन्यमिति // मनेः खश् श्यन् / अत्र मननक्रियाम्प्रति कुलत्वेन रूपेण कुलकर्तृ, तस्यैव कुलस्य अध्यारोपितश्रीत्वेन रूपेण कर्मत्वञ्चेति स्थितिः। एवञ्च श्रीशब्दस्य नित्यस्त्रीलिङ्गस्यापि कुले लक्षणया वृत्तेर्नपुंसकत्वम् / “यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पूर्वलिङ्गत्यागः / यथा प्रकृते श्रीशब्दः / यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गत्यागः / यथा गङ्गायाङ्कोष इत्यादौ” इति 'योगादाख्यायाम्' इति सूत्रे प्रकृतसूत्रे च भाष्यकैयटयोमर्यादा स्थिता / एवञ्च काळिम्मन्यं कुलमित्यत्र काळीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात् / श्रिमन्यं कुलमित्यत्र तु प्रयोगानुसारात् श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागात् नपुंसकलिङ्गत्वमेवाश्रीयते / ततश्च श्रीशब्दस्यात्र नपुसकत्वात् 'खित्यनव्ययस्य' इति बहिरङ्गं बाधित्वा 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्व एव न्याय्यः / मुमपवादे 'इच एकाचः' इति अमि कृते तस्य ‘स्वमोनपुंसकात्' इति लुक् / तथाच श्रिमन्यङ्कुलमिति सिद्धम् / नच गाम्मन्य इत्यादावपि 'सुपो धातुप्रातिपदिकयोः' इति लुक् स्यादिति वाच्यम् / 'इच एकाचः' इत्यमः ‘सुपो धातु' इति लुगपवादत्वात् / ‘स्वमोनपुंसकात्' इति लुकस्तु नायमम्विधिर्बाधकः / मध्येऽपवादन्यायात् इति प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् / तदाह / भाष्यकारवचनाच्छ्रीशब्दस्य ह्रस्व इति // ‘ह्रस्वो नपुंसके' इत्यनेनेति शेषः। मुममोरभावश्चेति // मुमपवादस्य अमः ‘स्वमोर्नपुंसकात्' इति लुकि सति तयोः प्रयोगाभावः फलतीत्यर्थः / भूते // अधिकारोऽयमिति // धातोरित्यधिकृतम् / ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्रानु. वर्तते इति फलति / वर्तमाने इति // ‘वर्तमाने लट्' इत्यतः प्रागित्यर्थः / अत्र For Private And Personal Use Only