________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 527 2991 / बहुलमाभीक्ष्ण्ये / (3-2-81) पौनःपुन्ये द्योत्ये सुप्युपपदे णिनि: / क्षीरपायिण: उशीनराः / 2992 / मनः / (3-2-82) सुपि मन्यतेणिनिः स्यात् / दर्शनीयमानी। __2993 / आत्ममाने खश्च / (3-2-83) स्वकर्मके मनने वर्तमानान्मन्यते: सुपि खश् स्यात् / चाणिनिः / पण्डितमात्मानं मन्यते पण्डितम्मन्य:-पण्डितमानी / 'खित्यनव्ययस्य' (सू 2743) / कालिंमन्या / 'अनव्ययस्य' किम् / दिवामन्या। 2994 / इच एकाचोऽम्प्रत्ययवच्च / (6-3-68) इजन्तादेकाचोऽम्स्यात्स च वाद्यम्वत्खिदन्ते परे। 'औतोऽम्शसो:' (सू 285) गाम्मन्यः / ‘वाम्शसो:' (सू 302) / स्त्रियम्मन्यः / स्त्रीम्मन्यः / व्रते गम्ये इति यावत् / स्थाण्डलेशायीति // 'तत्पुरुषे कृति बहुळम् ' इत्यलुक् / बहुळमाभीक्ष्ण्ये // जातावप्युपपदे प्राप्त्यर्थमिदम् / तत् ध्वनयन्नुदाहरति / क्षीरपायिण इति // मनः // देवादिकस्यैव मनेर्ग्रहणं न तु तानादिकस्य, बहुळग्रहणानुवृत्तेः / तदाह / सुपि मन्यतेरिति // मनुतेर्ग्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते / आत्ममाने खश्च // आत्मनः स्वस्य मानः मननम् आत्ममानः / तदाह / स्वकर्मके मनने इति / पण्डितम्मन्य इति // खशः शित्त्वेन सार्वधातुकत्वात् श्यन् / खित्वात् 'अरुर्द्विषत्' इति मुम् / तानादिकस्य मनेर्ग्रहणे तु उविकरणः स्यात् / कालीमात्मानम्मन्यते इत्यर्थे खशि श्यनि कृते आह। खित्यनव्ययस्येति // 'स्त्रियाः पुंवत्' इति पुंवत्त्वं बाधित्वा परत्वाद्रस्वः इत्यर्थः / दिवामन्येति // अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्वं बोध्यम् / इच एकाचः॥ एकाचः अमिति छेदः / अम् च अम् चेत्येकशेषः / एकं विधेयसमर्पकम् / इच एकाचो. ऽमिति प्रथमं वाक्यम् / इच इत्येकाच इति च पञ्चमी / 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारात् आक्षिप्तम्पूर्वपदम् इचा विशेष्यते / तदन्तविधिः / तदाह / इजन्तादेकाचोऽम् स्यादिति // मुमोऽपवादः / द्वितीयम् अम्पदम्प्रत्ययवदित्येकदेशेन प्रत्ययेन समानाधिकरणं सम्बध्यते / असामर्थेऽपि वतिप्रत्यय आर्षः / अम्प्रत्ययवदिति द्वितीयं वाक्यं सम्पद्यते। स्वादिप्रत्ययेषु यत् द्वितीयैकवचनं तदेवात्र अमिति विवक्ष्यते, व्याख्यानात् / तदाह / स च स्वाद्यम्वदिति // एतत्सर्वं भाष्ये स्पष्टम् / खिदन्ते परे इति // खिदन्ते उत्तरपदे परत इत्यर्थः / 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवर्तते इति भावः / अम्प्रत्ययवदित्यतिदेशस्य प्रयोजनमाह। औतोशसोरिति // गाम्मन्य इति // गामात्मानं मन्यते इत्यर्थे मनेः खशि श्यन् , सुपो लुक् , गोशब्दादम् , अम्प्रत्ययवदित्यतिदेशात् मकारस्य 'न विभक्तौ ' इति नेत्त्वम् / 'औतोम्शसोः' For Private And Personal Use Only