________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 525 2986 / गमः क्वौ / (6-4-40) अनुनासिकलोप: स्यात् / अङ्गगत् / 'गमादीनामिति वक्तव्यम्' (वा 4076) / पुरीतत् / संयत् / सुनत् / 'ऊ च गमादीनामिति वक्तव्यं लोपश्च' (वा 4073-74) / अग्रेगूः / अग्रेभ्रूः / 2987 / स्थः क च / (3-2-77) चारिकप् / शंस्थः / शंस्थाः / 'शमिधातो:--' (सू 2928) इत्यचं बाधितुं सूत्रम् / 2988 / सुप्यजातौ णिनिस्ताच्छील्ये / (3-2-78) अजात्यर्थे सुपि धातोणिनिः स्यात्ताच्छील्ये द्योत्ये / उष्णभोजी / शीतभोजी / 'अजातौ' किम् / ब्राह्मणानामन्त्रयिता / 'ताच्छील्ये' किम् / क्विपि राल्लोपः' इति वकारस्य लोपे सुलोपे वोः' इति दीर्घ धूरिति रूपमिति भावः / गमः क्वौ / अनुनासिकलोपः स्यादिति // शेषपूरणमिदम् / ‘अनुदात्तोपदेश' इत्यतस्तदनुवृत्तेरिति भावः / झलादिप्रत्ययपरकत्वाभावात् अनुदात्तोपदेशेत्यप्राप्तौ वचनम् / अङ्गगदिति // अङ्गाख्यं देशं गच्छतीति विग्रहः / क्विपि मकारलोपे तुक् / एवं वङ्गगत्कलिङ्गगदित्यादि / गमादीनामिति // कावनुनासिकलोप इति शेषः / पुरीतदिति // पुरिः हृदयाख्यः मांसखण्ङविशेषः / तन्तनोति आच्छादयतीति विग्रहः / हृदयकमलाच्छादको मेदोविशेषः / 'पुरीतदा हि हृदयमाच्छाद्यते” इति श्रुतिरिति कर्किभाष्यम् / तने: क्विपि नकारलोपे तुक् / 'नहिवृतिवृषि' इति पूर्वपदस्य दीर्घः / संयदिति // यमेः विप् / मलोपे तुक् / सुनदिति // नमः क्विपि मलोप तुक् / ऊ चेति // गमादीनामुपधायाः ऊभावश्चेति वक्तव्यमित्यर्थः / लोपश्चेति // चकारादनुनासिकलोपः समुच्चीयते इति भावः / अग्रेगरिति // अग्रे गच्छतीति विग्रहः / गमेरकारस्य ऊभावः मलोपश्च 'तत्पुरुषे कृति बहुळम् ' इत्यलुक् / अग्रेरिति // भ्रमेरकारस्य ऊभावः, मलोपश्च / स्थः क च // केत्यविभक्तिकम् / स्थ इति पञ्चम्यन्तम् / चात् क्विविति // उपसर्गे अनुपसर्गे च सुबन्ते उपपदे स्थाधातोः कप्रत्ययः स्यात् क्विप् चेति फलितम् / शंस्थ इति / / शमित्यव्ययं सुखे / तत्पूर्वात् स्थाधातोः कप्रत्यये आतो लोपः / शंस्था इति / / क्विपि रूपम् / सुखं स्थापयतीत्यर्थः / तिष्ठतिरन्तर्भावितण्यर्थः / शंस्था इति भाध्यप्रयोगात् पृषोदरादित्वाच्च 'घुमास्था' इति ईत्त्वन्न / केचित्तु कचेति चकारात् विजवानुकृष्यते इत्याहुः / ननु 'सुपि स्थः' इति कप्रत्यये 'विप् च' इति क्विपि च सिद्धे किमर्थमिदमित्यत आह / शमिधातोरित्यचमिति // अन्यथा धातुग्रहणसामर्थ्यात् कृओ हेत्वादिषु टप्रत्ययमिव शम्पूर्वात् स्थाधातोः कं क्विपञ्च अच्प्रत्ययो बाधेतेति भावः / सुप्यजातौ णिनिस्ताच्छील्ये // 'सुपि स्थः' इत्यतः सुपीत्यनुवृत्तौ पुनः सुग्रहणमुपसर्गेऽपि विधानार्थम् / अन्यथा 'आतोऽनुपसर्गे' इत्यतः अनुपसर्गे इत्यनुवर्तेत / For Private And Personal Use Only