________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 524 सिद्धान्तकौमुदीसहिता [कृदन्त 'शास इत्-' (सू 2486) इतीत्त्वम् / मित्राणि शास्ति मित्रशीः / 'आशासः को उपधाया इत्त्वं वाच्यम्' (वा 4070) / आशीः / इत्त्वोत्त्वे / गी: / पूः। 2985 / इस्मन्त्रन्क्विषु च / (6-4-97) एषु छादेह्रस्व: स्यात् / तनुच्छत् / 'अनुनासिकस्य कि-' (सू 2666) इति दीर्घः / ‘मो नो धातोः' (सू 341) / प्रतान् / प्रशान् / 'च्लो:-' (सू 2561) इत्यूठ / अक्षयूः / 'ज्वरत्वर-' (सू 2654) इत्यूठ / जूः / जूरौ / जूरः / तूः / स्रः / ऊठ, वृद्धिः, जनानवतीति जनौः / जनावौ / जनावः / मूः / मुवौ / मुवः / सुमूः / सुम्वौ / सुम्व: / ‘राल्लोपः' (सू 2655) / मुर्छा, मूः / मुरौ / मुरः / धुर्वी, धूः / 'न ङिसम्बुध्योः' इति निषेधात् / मित्रशीरिति // मित्राणि शास्तीति विग्रहः / शासेः क्विप् 'शास इदङ्हलोः' इत्युपधाया इत्त्वम् , 'वोरुपधायाः' इति दीर्घः। मित्रशिषावित्यादौ अपदान्तत्वान्न दीर्घः / आशासः काविति // 'आङः शासु इच्छायाम्' इत्यात्मनेपदी। तस्य 'शास इदङ्हलोः' इति इत्त्वन्तु न भवति / तत्र परस्मैपदिन एव शासेर्ग्रहणात् / अन्यथा आशास्ते इत्यादावपि इत्त्वापत्तेः। अतः आशासः काविति विधिः / इत्त्वोत्त्वे इति // गृधातोः क्विपि, ऋत इत्त्वे, रपरत्वे, सोर्लोपे, 'वोरुपधायाः' इति दीर्घे, गीरिति रूपम् / पृधातोः क्विपि, 'उदोष्ठ्यपूर्वस्य' इति ऋतः उत्त्वे, रपरत्वे, सुलोपे, उपधादीर्घ पू: इति रूपमित्यर्थः / इस्मन्नन् // इस् , मन् , त्रन् , क्वि, एषाश्चतुर्णान्द्वन्द्वः / 'छादेर्धेऽद्वथुपसर्गस्य' इत्यतः छादेरिति ‘खचि हस्वः' इत्यतः ह्रस्व इति चानुवर्तते / तदाह / एषु छादेरिति // अर्थादाकारस्येति गम्यते / अलोऽन्त्यपरिभाषामाश्रित्य इकारस्य ह्रस्वविधौ प्रयोजनाभावात् / एवञ्च 'ऊदुपधायाः' इत्यतः उपधाया इति नानुवर्तनीयम् / ण्यन्तस्य छादेर्दकारोपधत्वात् / इस् छदिः, मन् छद्म, त्रन् छत्त्रम् / क्वौ उदाहरति / तनुच्छदिति // तनुं छादयतीति विग्रहः। अथ तनेश्शमेश्च क्विपि विशेषमाह / अनुनासिकस्येति // अक्षयूरित्यत्र आह / च्छोरिति // अक्षदीव्यतीति विग्रहे दिधातोः क्विपि वकारस्य ऊठि इकारस्य यणिति भावः / ज्वरेति // ज्वरधातोः क्विपि अकारवकारयोरेकस्मिन् ऊठि जूरिति रूपम् / एवं त्वरेः तूरिति रूपम् / त्रिवेः विपि इकारवकारयोरूठि सूरिति रूपम् / अवधातोः क्विपि अकारवकारयोरूठि ऊरिति रूपम् / वृद्धिरिति // जनानवतीति विग्रहे, अवेः क्विपि, अकारवकारयोरूठि, जन ऊ इति स्थिते, आद्गुणं बाधित्वा ‘एत्येधत्यूठसु' इति वृद्धिरौकारादेश इत्यर्थः / मूरिति // मवेः विपि, अकारवकारयोरूठ / सुम्यौ, सुम्वः इति // अनेकान्त्वात् गतिपूर्वत्वाच्च यणिति भावः / रादिति // मुर्छाधातोः क्विपि ‘राल्लोपः' इति छकारस्य लोपे सुलोप 'वोः' इति दीर्घ मूरिति रूपम् / मुरौ, मुरः इति // अपदान्तत्वानोपधादीर्घः / धुर्वीति // धुर्वाधातोः For Private And Personal Use Only