________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 522 सिद्धान्तकौमुदीसहिता [कृदन्त एभ्यः किप्स्यादुपसर्गे सत्यसति च सुप्युपपदे / घुसत् / उपनिषत् / अण्डसूः / प्रसूः / मित्रद्विट् / प्रद्विट् / मित्रध्रुक् / प्रध्रुक् / गोधुक् / प्रधुक् / अश्वयुक् / प्रयुक् / वेदवित् / निविदित्यादि / 'अंग्रग्रामाभ्यां नयते! वाच्यः' (वा 5064) / अग्रणी: / ग्रामणीः / 2976 / भजो ण्विः / (3-2-62) सुप्युपसर्गे चोपपदे भजेवि: स्यात् / अंशभाक् / प्रभाक् / 2977 / अदोऽनन्ने / (3-2-68) विट् स्यात् / आममत्ति आमात् / सस्यात् / 'अनन्ने' किम् / अन्नादः / __2978 / क्रव्ये च / (3-2-69) अदेविट् / पूर्वेण सिद्धे वचनमण्बाधनार्थम् / क्रव्यात् / आममांसभक्षकः / कथं तर्हि 'क्रव्यादोऽस्रप आशरः' इति / पकमांसशब्दे उपपदेऽण् / उपपदस्य क्रव्यादेशः, पृषोदरादित्वात् / 2979 / दुहः कब्धश्च / (3-2-70) कामदुधा / तेन ‘वदस्सुपि क्यप् च' इति विधिरुपसर्गे न भवतीति भाष्ये स्पष्टम् / शुसदिति // दिवि सीदतीति विग्रहः / ‘सात्पदाद्योः' इति न षत्वम् / पूर्वपदात्' इति षत्वं तु न भवति, तस्य च्छान्दसत्वात् / 'आदितेया दिविषदः' इत्यत्र सुषामादित्वात् षत्वमित्याहुः / उपनिषदिति // 'सदिरप्रतेः' इति षत्वम्। इत्यादीति // काष्टभित्, रज्जुच्छित् , शत्रुजित् , अत्र 'ह्रस्वस्य पिति' इति तुक्। सेनानीः, विराट् / अग्रग्रामाभ्यामिति // असमानपदत्वादप्राप्ते णत्वे वचनम् / भजो ण्विः // सुप्युपपदे भजेविरित्यर्थः / अंशभागिति // णित्त्वादुपधावृद्धिः / अदो. ऽनन्ने // विट् स्यादिति // शेषपूरणमिदम् / अन्नशब्दभिन्ने सुप्युपपदे अदेविट् स्यादिति फलितम् / 'जनसनखनक्रमगमो विट' इति छान्दससूत्राद्विडित्यनुवर्तते / सस्यादिति // सस्यमत्तीति विग्रहः / अन्नाद इति // कर्मण्यण् / क्रव्ये च // अदेवि डिति // शेषपूरण मिदम् / अण्बाधनार्थमिति // क्रव्ये अदेविडेव न त्वणित्यर्थलाभादिति भावः / कथ. न्तहीति // क्रव्ये उपपदे अदेविडेवेति नियमादणोऽसम्भवादित्याक्षेपः / समाधत्ते / पक्कमांसशब्द इति // तर्हि पक्वमांसाद इति स्यादित्यत आह / उपपदस्य क्रव्यादेश इति // कुत इत्यत आह / पृषोदरादित्वादिति // दुहः कब्धश्च // सुप्युपपदे दुहेः कप्स्यात् प्रकृतेर्घश्चान्तादेश इत्यर्थः / कामदुघेति // धनुरिति शेषः / काममपेक्षितन्दुग्धे 1. 'पूर्वपदात्संज्ञायामगः' (सू 858) इति सूत्रेणेति भावः / अपूर्ववचनत्वे तु 'ग्रामनयनस्य' इति ग्रन्थविरोधः / For Private And Personal Use Only