________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 518 सिद्धान्तकौमुदीसहिता [कृदन्त विश्वं बिभर्तीति विश्वम्भरः / विश्वम्भरा / रथन्तरं साम / इह रथेन तरतीति व्युत्पत्तिमात्रं, न त्ववयवार्थानुगमः / पतिंवरा कन्या / शत्रुजयो हस्ती / युगन्धरः पर्वतः / शत्रुसहः / शत्रुन्तपः / अरिन्दमः / दमिः शमनायाम् , तेन सकर्मक इत्युक्तम् / मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः / 2964 / गमश्च / (3-2-47) सुतङ्गमः / 2965 / अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः / (3-2-48) संज्ञायामिति निवृत्तम् / एषु गमेर्ड: स्यात् / डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / अन्तं गच्छतीत्यन्तग इत्यादि / 'सर्वत्रपन्नयोरुपसङ्खथानम्' (वा 2014) / सर्वत्रगः / पन्नं पतितं गच्छतीति पन्नगः / पन्नमिति पद्यते: तान्तं क्रियाविशेषणम् / 'उरसो लोपश्च' (वा 2015) / उरसा गच्छतीत्युरगः / 'सुदुरोरधिकरणे' (वा 2016) / सुखेन गच्छत्यत्र सुगः / दुर्गः / 'अन्यत्रापि दृश्यत इति वक्तव्यम्' (वा 2018) / ग्रामगः / 'डे च विहायसो विहादेशो वक्तव्यः' (वा २०१२)-विहगः / विश्वम्भर इति // विष्णोरियं संज्ञा / विश्वम्भरेति // पृथिव्या संज्ञा इयम् / रथन्तरमिति // तृधातोः खच् / रथेन तरितृत्वस्य सामाविशेषे असम्भवादाह / इहेति // वृधातोरुदाहरति / पतिवरेति // शत्रुञ्जय इति // जिधातोः खच् / धारीति ण्यन्तग्रहणं, तस्योदाहरति / युगन्धर इति // युगं धारयतीति विग्रहः / 'खचि ह्रस्वः' इत्युपधाह्रस्वः, णिलोपः / शत्रुसह इति // शत्रून् सहते इति विग्रहः। हृस्वादि पूर्ववत् / एवमप्रेऽपि / शत्रुन्तप इति // शत्रून् तपतीति विग्रहः / अरिन्दम इति // अरिषु निग्रहविषये शाम्यतीत्यर्थः / दमिः शमनायामिति // 'दमु उपशमे' इति धातुपाठे उपशमशब्दे शमेर्ण्यन्तात् घञ् / तथाच दाम्यतीत्यस्य उपशमयतीत्यर्थाश्रयणात् सकर्मकत्वमिति माधवादिमते सकर्मकोऽयमित्यर्थः / मतान्तरे त्विति // 'दमु उपशमे' इत्युपशमार्थस्य दमेरकर्मकत्वामेति हरदत्तादिभिरुक्तमित्यर्थः / गमश्च // संज्ञायां खजिति शेषः / अन्तात्यन्त // इत्यादि व्यक्तम् / सर्वत्रपन्नयोरिति // सर्वत्रशब्दे पन्नशब्दे चोपपदे गमेर्डस्योपसङ्खथानमित्यर्थः / उरस इति // उरसि उपपदे गमेडः उरश्शब्दान्त्यस्य लोपश्चेति वक्तव्यमित्यर्थः / सुदुरो. रिति // सु दुर् अनयोरुपपदयोर्गमेर्डः स्यात् अधिकरणे वाच्ये इत्यर्थः / अन्यत्रापि दृश्यत इति // अन्येष्वप्युपपदेषु अन्येभ्योऽपि धातुभ्यः डो दृश्यते इत्यर्थः / अनेनैव सिद्धे 'सर्वत्रपन्नयोः' इत्यादि प्रपञ्चार्थमेव / एवञ्च ‘सप्तम्याअनेर्डः' इत्यत्रापि 'अन्येष्वपि दृश्यते' इति प्रपश्चार्थमेव / डे चेति // विहायसो विह चेत्युक्तस्य खज्विषयत्वादिदं वचनम् / विहग For Private And Personal Use Only