________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 517 पुरं दारयतीति पुरन्दरः / सर्वसहः / सहिग्रहणमसंज्ञार्थम् / ‘भगे च दारेः' (वा 2013) इति काशिका | बाहुलकेन लब्धमिदमित्याहुः / भगं दारयतीति भगन्दरः / 2959 / सर्वकलाभ्रकरीषेषु कषः। (3-2-42) सर्वकष: खलः / कूलङ्कषा नदी / अभ्रङ्कषो वायुः। करीषङ्कषा वात्या / 2960 / मेघर्तिभयेषु कृञः / (3-2-43) मेघङ्करः / ऋतिङ्करः / भयङ्करः / भयशब्देन तदन्तविधिः / अभयङ्करः। 2961 / क्षेमप्रियमद्रेऽण च / (3-2-44) एषु कृञोऽण्स्यात् / चात्खच् / क्षेमङ्कर:-क्षेमकारः। प्रियङ्करः-प्रियकारः / मद्रङ्कर:-मद्रकारः / वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति / कथं तर्हि ‘अल्पारम्भः क्षेमकरः' इति / कर्मणः शेषत्वविवक्षायां पचाद्यच् / 2962 / आशिते भुवः करणभावयोः / (3-2-45) आशितशब्द उपपदे भवते: खच् / आशितो भवत्यनेनाशितम्भव ओदनः / आशितस्य भवनमाशितम्भवः / 2963 / संज्ञायां भृतृवृजिधारिसहितपिदमः / (3-2-46) यथासङ्खथमन्वयः / दारीति ण्यन्तस्य ग्रहणम् / पुरन्दर इति // पुरं दारयतीति विग्रहे दारेः खचि णिलोपे 'खचि ह्रस्वः' इत्युपधाह्रस्वे सुपो लुकि 'वाचंयमपुरन्दरौ च' इति निपातनादमन्तत्वम् / ननु ‘संज्ञायां भृतृवृजिधारिसहितपिदमः' इत्येव सिद्धे सहधातोरिह ग्रहणं व्यर्थमित्यत आह / असंज्ञार्थमिति // भगे चेति // इत्यादि स्पष्टम् / ऋतिङ्कर इति // ऋतिर्गमनम् / अभयङ्करशब्दं साधयितुमाह / भयशब्देन तदन्तविधिरिति // इदञ्च ‘यन विधिः' इत्यत्र भाष्ये स्पष्टम् / क्षेमप्रिय // ननु 'क्षेमप्रियमद्रे वा' इति खयो विकल्पविधौ खजभाव ‘कर्मण्यण्' इत्यस्य सिद्धत्वादणग्रहणं व्यर्थमित्यत आह / वेति वाच्ये इति // हेत्वादाविति // 'o हेतुताच्छील्यानुलोम्येषु' इति विहित इत्यर्थः / कथन्तीति // 'कृओ हेतु' इत्यस्य अणा बाधात् क्षेमकार इति भवितव्यम्। खचि तु मुम् स्यादित्याक्षेपः / समाधत्ते। कर्मणश्शेषत्वेति // तथाच कर्मोपपदाभावात् अणभावे चाजिति भावः / क्षेमकरीति तु गौरादित्वात् ङीषिल्याहुः / आशिते // करणे उदाहरति / आ. शितो भवत्यनेनेति // भावे उदाहरति / आशितस्य भवनमिति // संज्ञायाम् // खजिति शेषः / भृ, तृ, व, जि, धारि, सहि, तपि, दमि, एषामष्टानां समाहारद्वन्द्वात्पञ्चमी / For Private And Personal Use Only