________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 516 सिद्धान्तकौमुदीसहिता [कृदन्त 2954 / द्विषत्परयोस्तापेः / (3-2-39) खच्स्यात् / 2955 / खचि हस्वः / (6-4-94) खच्परे णौ उपधाया ह्रस्व: स्यात् / द्विषन्नं परं वा तापयतीति द्विषन्तप: / परन्तपः / घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनिस्या / तेनेह न / द्विषती तापयतीति द्विषतीतापः / 2956 / वाचि यमो व्रते / (3-2-40) वाक्छब्द उपपदे यमे: खच्स्यागुते गम्ये / 2957 / वाचंयमपुरन्दरौ च / (6-3-69) वाक्पुरोरमन्तत्वं निपात्यते / वाचंयमो मौनव्रती / 'व्रते' किम् / अशक्त्यादिना वाचं यच्छतीति वाग्यामः / 2958 / पूःसर्वयोरिसहोः / (3-2-41) भुजैर्गच्छतीति विग्रहः / द्विषत्परयोः // 'तप दाहे' चुरादिः 'तप सन्तापे' भ्वादिः / द्वयोरपि ण्यन्तयोस्तापेरिति निर्देशः / खच् स्यादिति // द्विषत् , पर, अनयोः कर्मणोरुपपदयोः तापेः खजित्यर्थः / द्विषत् तापि अ इति स्थिते आह / खचि ह्रस्वः // ‘दोषो णौ' इत्यतो णाविति 'ऊदुपधायाः' इत्यतः उपधाया इति चानुवर्तते / तदाह / खच्परे णाविति // खशि प्रकृते खचो विधिरिह ह्रस्वार्थ णिलोपार्थश्च / खशि तु तदुभयन्न स्यात् / खशश्शित्त्वेन सार्वधातुकतया णिलोपासम्भवात् / न च इहैव सूत्रे खज्विधीयतां पूर्वसूत्र खशेवानुवर्ततामिति वाच्यम् , अन्यतोऽपि विधानार्थत्वात् / एवञ्च ‘गमेस्सुपि' इति वार्तिकम् एतल्लब्धार्थकथनपरमेवेत्याहुः / द्विषन्तप इति // 'अरुर्द्विषत्' इति तकारात्प्राक् मुम् / परन्तप इति // परः शत्रुः / ननु लिङ्गविशिष्टपरिभाषया द्विषतीशब्देऽप्युपपदे तापेः खचि द्विषतीतप इति स्यात् / द्विषतीताप इत्यण्णन्तन्न स्यात् इत्यत आह / घटघटीति // ‘शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु गृहेरुपसङ्खथानम्' इत्यत्र घटग्रहणेनैव लिङ्ग विशिष्टपरिभाषया घटीशब्दस्यापि सिद्ध पुनर्घटी. ग्रहणात् लिङ्गविशिष्टपरिभाषा अनित्येति विज्ञायते इत्यर्थः / उपपदविधौ लिङ्गविशिष्टपरिभाषा नेति ड्याप्सूत्रे भाष्याचेत्यपि द्रष्टव्यम् / वाचि यमो व्रते // इत्यादि व्यक्तम् / वाचंयमपुरन्दरौ च // वाक्पुरोरिति // वाचं यच्छतीति पुरं दारयतीति च विग्रहे यमर्दारेश्च खच् / सुपो लुकि वाच् यम्, पुर् दार, इति स्थिते वाक्पुरोरमन्तत्वन्निपात्यते इत्यर्थः / 'अरुर्द्विषदजन्तस्य' इति मुमस्तु न प्रसक्तिः / पूस्सर्वयोर्दारिसहोः // दारिसहोरिति पञ्चम्यर्थे षष्ठी / पुरिशब्दे सर्वशब्दे च कर्मवाचिन्युपपदे दारेस्सहेश्च खजित्यर्थः / For Private And Personal Use Only