________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2261 / थलि च सेटि / (6-4-121) प्रागुक्तं स्यात् / आदेशश्चेह वैरूप्यसम्पादक एवाश्रीयते / शसिदद्योः प्रतिषेधवचनाज्ज्ञापकात् / तेन प्रकृतिजश्चरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव / देधे / देधाते / देधिरे / 'अतः' किम् / दिदिवतुः / 'तपरः' किम्। ररासे / 'एक-' इत्यादि किम् / तत्सरतुः / * अनादेशादेः' किम् / चकणतुः। लिट आदेशविशेषणादिह स्यादेव / नेमिथ / सेहे / ‘स्कुदि 9 आप्रवणे'। आप्रवणमुत्प्लवनमुद्धरणं च / थलिचेति / प्रागुक्तमिति // अत एकहल्मध्य इति यत् प्रागुक्तं एत्वादि तत् सेटि थलि च स्यादित्यर्थः। थल: कित्वाभावात् पूर्वसूत्रेणाप्राप्तौ वचनम् / ननु देधे पेततुरित्यादौ अभ्यासे चर्चेति जशां चराञ्च जाश चरिच लिण्णिमित्तादेशादित्वात् कथमेत्वाभ्यासलोपावित्यत आह / आदेशश्चेति // इह अतएकहल्मध्य इति सूत्रे / आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः / तथाच तथाविधादेशादेरेव एत्वाभ्यासलोपो न भवतः / स्थानिसरूपादेशादेस्तु न पर्युदास इत्यर्थः / शसिदद्योरिति // नशसददवादिगुणानामिति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते / यदिह यथाकथञ्चिदादेशादेः पयुदासस्स्यात् तर्हि शसिदद्योरभ्यासे शकारदकारयोश्चर्जशोः शकारदकारादेशे सति आदेशादित्वादेव एत्वाभ्यासलोपयोः अभावसिद्धौ न शसददवेति तत्प्रतिषेधोऽनर्थकस्स्यात् / अतः वैरूप्यसम्पादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः / तेनेति // स्थानिसरूपादेशादेः पर्युदासाभावादित्यनेनेत्यर्थः / सत्स्वपीति // देधे पेततुः इत्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः / देधे इति // दध दध् ए इति स्थिते दकारादकारस्य एत्वेऽभ्यासलोपे च रूपम् / असंयोगालिट् किदिति कित्वमिह बोध्यम् / देधिर इति // देधिषे देधाथे देधिध्वे देधे देधिवहे देधिमहे इति रूपाणि सम्भवन्तीति भावः / दिदिवतुरिति / / दिब्धातोरतुसि द्वित्वे हलोमध्ये अतोऽभावादेत्वाभ्यासलोपौ नेति भावः / तपरः किमिति // अत इति तपरकरणं किमर्थमित्यर्थः / ररासे इति // रास शब्दे भ्वादिरात्मनेपदी / अत्र हल्मध्यस्थावर्णस्य ह्रस्वत्वाभावादेत्वाभ्यासलोपो नेति भावः / एकेत्यादि किमिति // एकहल्मध्यस्थस्येति किमर्थमित्यर्थः / तत्सरतुरिति // त्सरच्छद्मगतौ / लिटोऽतुसि द्वित्वे अभ्यासाकारस्य नासंयुक्तहल्मध्यस्थत्वमिति भावः / चकणतुरिति // कण शब्दे / लिटोऽतुसि द्वित्वे अभ्यासेचर्चेति ककारस्य चुत्वेन चकारः / तथाच वैरूप्यसम्पादकादेशादित्वादेत्वाभ्यासलोपी नेति भावः / अथ लिण्णिमित्तादेशादिकमित्यत्र लिण्णिमित्तेत्यस्य प्रयोजनमाह / लिट इति / नेमिथेति // णमु प्रहत्वे शब्दे च। णोन इति नत्वं / थलि इटि द्वित्वे नत्वसम्पन्ननकारादेशादित्वेपि नत्वस्य लिण्णिमित्तकत्वाभावालिण्णिमित्तकादेशादित्वाभावादेत्वाभ्यासलोपो निर्बाधाविति भावः / सेहे इति // षह मर्षणे। धात्वादेः षस्स इति षत्वे थलि इटि द्वित्वे सत्वसम्पन्नसकारादेशादित्वेऽपि सत्वस्य For Private And Personal Use Only