________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त 2945 / नाडीमुष्टयोश्च / (3-2-30) / एतयोरुपपदयोः कर्मणो धेटोः खश् स्यात् / 'यथासङ्खथं नेष्यते' / नाडिन्धम:-नाडिन्धयः / मुष्टिन्धम:-मुष्टिन्धयः / 'घटीखारीखरीषूपसङ्खथानम्' (वा 2008) / घटिन्धमः-घटिन्धयः इत्यादि खारी परिमाणविशेषः / खरी गर्दभी। 2946 / उदि कूले रुजिवहोः / (3-2-31) उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् / कूलमुद्रुजतीति कूलमुदुजः / कूलमुद्वहः / 2947 / वहाभ्रे लिहः / (3-2-32) वहः स्कन्धस्तं लेढीति वहलिहो गौः / अदादित्वाच्छपो लुक् / खशो ङित्त्वान्न गुणः / अभ्रंलिहो वायुः / 2948 / परिमाणे पचः / 3-2-33) प्रस्थम्पचा स्थाली / खारिम्पच: कटाहः / 2949 / मितनखे च / (3-2-34) मितम्पचा ब्राह्मणी / नखम्पचा यवागू: / पचिरत्र तापवाची / 2950 / विध्वरुषोस्तुदः / (3-2-35) विधुन्तुदः / मुमि कृते संयोगान्तस्य लोप: / अरुन्तुदः / नासिकायाः ध्मश्चेति चकाराद्धेटश्चेति लभ्यते। तस्योदाहरति / नासिकन्धय इति // नाडीमुष्ट्योश्च // यथासङ्खयन्नेष्यते इति // इदन्तु भाष्ये स्पष्टम् / घटीखारीति // इत्यादि स्पष्टम् / उदि कुले // उदीति दिग्योगपञ्चम्यर्थे सप्तमी / रुजिवहोरिति पञ्चम्यर्थे षष्ठी / 'रुजो भङ्गे' तुदादिः / अत्र रुजेस्सकर्मकत्वात् कर्मण्युपपदे इति लब्धम्। तेन कूलं विशेष्यते, नतु उच्छब्दः / तस्य असत्त्ववाचित्वात् / तदाह / उत्पूर्वाभ्यामित्यादि / कूलमुद्रुज इति // सुपो लुकि मुमिति भावः। वहाभ्रे लिहः॥ वहे अभ्रे च कर्मण्युपपदे लिहः खशित्यर्थः / वहशब्दस्य विवरणम् / स्कन्ध इति // शपो लुगिति // खशश्शित्त्वेन सार्वधातुकत्वात् कृतस्य शपो लुगित्यर्थः। परिमाणे पचः // परिमाणं प्रस्थादि / तस्मिन् कर्मण्युपपदे पचेः खशित्यर्थः / खारिम्पचः इति // 'खित्यनव्ययस्य' इति हस्वः / मुम् / मितनखे च // मिते नखे च कर्मण्युपपदे पचः खशित्यर्थः / नखानां विक्लित्त्यसम्भवादाह / पचिरत्रेति // विध्वरुषोस्तुदः // विधु, अरुस् , अनयोः कर्मणोरुपपदयोः तुदः खशित्यर्थः / विधुन्तुद इति // विधुश्चन्द्रः तं तुदतीति विप्रहः / राहुरित्यर्थः / अरुस्शब्दे उकारादुपरि मुमि कृते For Private And Personal Use Only