________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त भिक्षां चरतीति भिक्षाचरः / सेनाचरः / आदायेति ल्यबन्तम् आदायचरः / कथम् ‘प्रेक्ष्य स्थितां सहचरीम्' इति / पचादिषु चरडिति पाठात् / 2932 / पुरोऽग्रतोऽग्रेषु सर्तेः / (3-1-18) पुरःसरः / अग्रत:सरः अग्रमणाग्रे वा सरतीत्यग्रेसरः। सूत्रेऽय इत्येदन्तत्वमपि निपात्यते / कथं तर्हि 'यूथं तदग्रसरगर्वितकृष्णसारम्' इति / बाहुळकादिति हरदत्तः। 2933 / पूर्वे कर्तरि / (3-2-19) कर्तृवाचिनि पूर्वशब्द उपपदे सर्तेष्टः स्यात् / पूर्वः सरतीति पूर्वसरः / 'कर्तरि' किम् / पूर्व देशं सरतीति पूर्वसारः / 2934 / कृञो हेतुताच्छील्यानुलोम्येषु / (3-2-20) एषु द्योत्येषु करोतेष्टः स्यात् / 'अत: कृकमि-' (160) इति सः / यशस्करी विद्या / श्राद्धकरः / वचनकरः।। 2935 / दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्नहर्यत्तहनुररुष्षु। (3-2-21) चरतिरत्र चरणपूर्वके आर्जने वर्तते / चरणेन भिक्षामाजयतीत्यर्थः / सेनाचर इति // सेनां प्रापयतीत्यर्थः / ल्यबन्तमिति // अत्र व्याख्यानमेव शरणम्। आदाय चरतीति // लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः / कथमिति // अधिकरणे भिक्षासेनादायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाञ्चरेरसम्भवादिति भावः / समाधते / पचादिष्विति // यद्यपि भिक्षाचर इत्यादौ पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः / पुरोऽग्रतः // पुरस् , अग्रतस्, अग्र, एखूपपदेषु सर्तेः टः स्यादित्यर्थः / अग्रेसर इति // ननु समासावयवत्वात्सुपो लुकि, अग्रसर इति स्यात् इत्यत आह / सूत्र इति // कथमिति // एदन्तत्वनिपातनात् कथमग्रसरशब्दः इत्यर्थः / समाधत्त / बाहुळकादिति // पूर्वे कर्तरि // कर्तृशब्दः कर्तृवाचिनि गौणः / तदाह / कर्तृवाचिनीति // कृतो हेतु // हेतुः कारणम् , आनुलोम्यम् आराध्याचत्तानुवर्तनम् / द्योत्येष्विति // कर्तुरेव प्रत्ययवाच्यत्वादिति भावः / हेत्वादिषूपपदेष्विति तु नार्थः, व्याख्यानात् / कर्मण्युपपदे इत्यपि द्रष्टव्यम् / 'कुप्वोः' इति जिह्वामूलीयमाशङ्कय आह / अतः कृकमीति // हेतावुदाहरति / यशस्करी विद्येति // विद्या यशोहेतुः / श्राद्धकर इति // श्राद्धक्रियाशील इत्यर्थः / वचनकर इति // गुर्वादिवचनानुवर्तीत्यर्थः / दिवाविभा // दिवा, For Private And Personal Use Only