________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 508 सिद्धान्तकौमुदीसहिता [कृदन्त 2923 / हरतेरनुद्यमनेऽच् / (3-2.9) अंशहरः / ‘अनुद्यमने' किम् / भारहारः / 'शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुःषु गृहेरुपसङ्खथानम्' (वा 1992) शक्तिग्रहः / लाङ्गलग्रहः / 'सूत्रे च धार्येऽर्थे' (वा 1993) सूत्रग्रहः / यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव, सूत्रग्राहः / 2924 / वयसि च / (3-2-10) उद्यमनार्थ सूत्रम् / कवचहरः कुमारः / 2925 / आङि ताच्छील्ये / (3-2-11) पुष्पाण्याहरति तच्छील: / पुष्पाहर: 'ताच्छील्ये' किम् / भाराहारः / 2926 / अर्हः / (3-2-12) / अर्हतेरच्स्यात्कर्मण्युपपदे अणोऽपवादः / पूजार्हा ब्राह्मणी / 2927 / स्तम्बकर्णयो रमिजपोः। (3-2-13) 'हस्तिसूचकयोरिति वक्तव्यम्' (वा 1994) / स्तम्बे रमते स्तम्बेरमो हस्ती / 'तत्पुरुषे कृति-' (सू 972) इति 'हलदन्तात्-' (सू 966) इति वा डेरलुक् / कर्णेजपः सूचकः / स्यादित्यर्थः / क्षीरपेति // क्षीरं पिबतीत्यर्थे सुराशीध्वोरन्यतरत्वाभावात् 'आतोऽनुपसर्गे कः' इति कप्रत्यये टाप् / पाति रक्षतीति // 'पा रक्षणे' इति लुग्विकरणस्य पिबतिग्रहणेन अग्रहणमिति भावः / हरतेरनुद्यमनेऽच् // अनुद्यमने विद्यमानात्कर्मण्युपपदे अजित्यर्थः / उद्यमनम् उद्ब्रहणम् / अंशहर इति // अंशस्य स्वीकर्तेत्यर्थः / भारहार इति // भारम् उद्गृहातीत्यर्थः / गृहेरुपसङ्खयानमिति // अच्प्रत्ययस्येति शेषः / 'ग्रह उपादाने' अदुपधः / गृहेरिति तु कृतसम्प्रसारणस्य इका निर्देशः / शक्तिग्रह इति // अकित्त्वान्न सम्प्रसारणम् / लाङ्गलग्रह इति // अङ्कुशग्रह इत्याद्यप्युदाहार्यम् / सूत्रे चेति // वार्तिकमिदम् / सूत्रे कर्मण्युपपदे धारणार्थकात् ग्रहधातोरजित्यर्थः / वयसि च // कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः। ननु ‘हरतेरनुद्यमनेऽच्' इत्येव सिद्धे किमर्थमिदमित्यत आह / उद्यमनार्थमिति // आङि ताच्छील्ये // आपूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये / ताच्छील्यन्तत्स्वभावता / पुष्पाहर इति // पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः / अहः॥ अणोऽपवाद इति // यद्यपि अणि अचि च पूजाहरूप न विशेषः / अदुपधत्वाभावेन वृद्धेरप्रसक्तेः / तथापि स्त्रियामण्णन्तत्वे ङीप्स्यात् / तनिवृत्तये अज्विधिः / तदाह / पूजाहेति / स्तम्बकर्णयोः // रम् जप् अनयोरकर्मकत्वात् कर्मणीति न सम्बध्यते / जपेश्शब्दोच्चारणार्थकस्य धात्वर्थोपसङ्ग्रहादकर्मकत्वम्बोध्यम् / दर्भादितृणनिचयः स्तम्बः / सूचकः पिशुनः / हस्तिसूचकयोः For Private And Personal Use Only