________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 505 मांसभक्षा / कल्याणाचारा / ' ईक्षिक्षमिभ्याञ्च' (वा 1981) / सुखप्रतीक्षा / बहुक्षामा / कथं तार्ह गङ्गाधरभूधरादयः / कर्मणः शेषत्वविवक्षायां भविष्यन्ति। 2914 / हावामश्च / (3-2-2) एभ्यः अण् स्यात् / कापवादः / स्वर्गह्वायः / तन्तुवायः / धान्यमायः / 2915 / आतोऽनुपसर्गे कः। (3-2-3) आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाण् / 'आतो लोप:' / गोदः / पाणिवम् / 'अनुपसर्गे' किम् / गोसन्दाय: / 'कविधौ सर्वत्र संप्रसारणिभ्यो ड:' (वा 1984) / ब्रह्म जिनाति ब्रह्मज्यः / सर्वत्रग्रहणादातश्वोपसर्गे आह्वः / प्रहः / 2916 / सुपि स्थः / (3-2-4) मांस भक्षयते इति विग्रहः / कल्याणाचारेति // कल्याणमाचरतीति विग्रहः / सर्वत्र टाप् / ईक्षिक्षामिभ्यामिति // वार्तिकमिदम् / ण इति शेषः / कथमिति // कर्मण्याण गङ्गाधारः इत्यादि स्यादित्याक्षेपः / कर्मणश्शेषत्वेति // तथाच कर्मोपपदाभावान्नाणिति भावः / हावामश्च // 'ह्वेञ् स्पर्धायाम् , वेञ् तन्तुसन्ताने' अनयोः कृतात्वयोनिर्देशः, 'माङ् माने' एषान्द्वन्द्वात्पञ्चम्येकवचनम् / एभ्य इति // कर्मण्युपपदे एभ्यः अण् स्यादित्यर्थः / ननु 'कर्मण्यण्' इत्येव सिद्धे किमर्थमिदमित्यत आह / कापवाद इति // 'आतोऽनुपसर्गे कः' इत्यस्याणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः / माङ् ङोरिह ग्रहणम् , नतु ‘मा माने' इत्यस्य, अकर्मकत्वात् / स्वर्गह्वाय इति // यद्यपि पराभिभवेच्छायां स्पर्द्धायां पराभिभवस्य कर्मणो धात्वर्थत्वेनोपसङ्ग्रहादकर्मक इत्युक्तम् / तथापि इह पराभिभवेच्छा धात्वर्थः / स्वर्गमभिभवितुं वाञ्छतीत्यर्थः / अन्तरङ्गत्वादात्वे कृते आतो युक् / एवमग्रेऽपि / आतोऽनुपसर्गे कः॥ पार्णित्रमिति // पाणिः पादमूलभागः / तं त्रायते इति विग्रहः / 'त्रैङ् पालने' आत्वे कृते कः / गोसन्दाय इति // अण्यातो युक् / कविधौ सर्वत्रेति // वार्तिकमिदम् / सर्वत्र कप्रत्ययविधौ सम्प्रसारणार्हेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः / ब्रह्मज्य इति // 'ज्या वयोहानौ' अस्माड्डः / डित्त्वसामर्थ्यादभस्यापि टेलोपः। अन कप्रत्यये सति कित्त्वात् 'अहिज्या' इति सम्प्रसारणम्प्रसक्तम् / अतो ड एव नतु कः / सर्वत्रेति // उपसर्गे उपपदे आतोऽपि ड एव / नतु 'आतश्चोपसर्गे' इति कः / सर्वत्र प्रहणादित्यन्वयः / अन्यथा अनन्तरस्य विधिरिति न्यायात् 'आतोऽनुपसर्गे कः' इत्येव बाध्येत, नतु 'आतश्चोपसर्गे' इति कप्रत्यय इति भावः / आह्वः, प्रह्व इति // अत्र 'आतश्चोपसर्गे' इति कम्बाधित्वा ड एव / तस्य अकित्त्वायजादिलक्षणं सम्प्रसारणन्न / सुपि स्थः॥ योगो 64 For Private And Personal Use Only