________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त हाको हाङश्च ण्युट् स्यात् ब्रीहौ काले च कर्तरि / जहात्युदकमिति हायनो ब्रीहिः / जहाति भावानिति हायनो वर्षम् / जिहीते प्राप्नोतीति वा / 2911 / पुसृल्वः समभिहारे वुन् / (3-1-149) समभिहारग्रहणेन साधुकारित्वं लक्ष्यते / प्रवकः / सरकः / लवकः / 2912 / आशिषि च / (3-1-150) आशीविषयार्थवृत्तेवुन्स्यात्कर्तरि / जीवतात्-जीवकः / नन्दतात्-नन्दकः / आशी: प्रयोक्तुर्धर्मः / आशासितुः पित्रादेरियमुक्तिः / इति तृतीयाध्यायस्य प्रथमः पादः / 2913 / कर्मण्यण् / (3-2-1) कर्मण्युपपदे धातोरण्प्रत्यय: स्यात् / उपपदसमास: / कुम्भं करोतीति कुम्भकारः / आदित्यं पश्यतीत्यादावनभिधानान्न / ‘शीलिकामिभक्ष्याचरिभ्यो णः' (वा 1980) / अणोऽपवादार्थ वार्तिकम् / मांसशीला / मांसकामा / तदाह / हाको हाङश्चेति // पुसल्वः // लक्ष्यते इति // एतच्च भाष्ये स्पष्टम् / ग्रु, स, लु, एषां समाहारद्वन्द्वात्पञ्चमी / आशिषि च / / जीवक इति // आशास्यमानजीवनक्रियाश्रय इत्यर्थः / एवनन्दकः। आशीरिति // आशासनम् अयमित्थंभूयादिति प्रार्थनं शब्दप्रयो. क्तृकर्तृकमिति यावत् / तत आशासितुः पित्रादेरियमुक्तिः / इयं नन्दकशब्दप्रयोग इत्यर्थः, औचित्यादिति भावः // इति तृतीयाध्यायस्य प्रथमः पादः / अथ तृतीयाध्यायस्य द्वितीयः पादः-कर्मण्यण् // कर्मण्युपपदे इति // तत्रोपपदं सप्तमीस्थम्' इत्यत्र तत्रेत्यनेनेदं लभ्यत इति तत्रैवोक्तम् / प्रत्ययस्तु कर्तर्येव / उपपदसमास इति // 'उपपदमतिङ्' इत्यनेनेति भावः / कुम्भङ्करोतीति // अस्वपदो लौकिकविग्रहोऽयम् / कुम्भ अस् कार इत्यलौकिकविग्रहवाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठ्यन्तस्य समास इति प्रागेवोक्तम् / ननु आदित्यम्पश्यतीत्यादित्यदर्शः, हिमवन्तं शृणोतीति हिमवच्छ्रावः, ग्रामङ्गच्छतीति ग्रामगामः, इत्यादि स्यादित्यत आह / आदित्यम्पश्यतीत्यादावनभिधानान्नेति // एतच भाष्ये स्पष्टम् / शीलीति // शालि, कामि, भक्षि, आचरि, एभ्यो णप्रत्ययो वाच्य इत्यर्थः / ननु 'कर्मण्यण' इत्यणैव सिद्धे किमर्थमिदमित्यत आह। अणोऽपवादार्थमिति // अणन्तत्वे तु ङीप् स्यात् / तनिवृत्त्यर्थे णविधानमिति भावः। तदाह / मांसशीलेति // 'शील समाधौ' इति भ्वादिः / इह तु स्वभावतस्सेवने वर्तते। मांस स्वभावतस्सेवमानेत्यर्थः / मांसकामेति // मांसङ्कामयते इति विग्रहः / मांसभक्षेति // For Private And Personal Use Only