SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 503 2906 / गेहे कः / (3-1-144) गेहे कर्तरि प्रहे: क: स्यात् / गृह्णाति धान्यादिकमिति गृहम् / तात्स्थ्यात् गृहा दाराः / 2907 / शिल्पिनि वुन् / (3-1-145) क्रियाकौशलं शिल्पं तद्वत्कर्तरि वुन्स्यात् / 'नृतिखनिरखिभ्य एव' (वा 1971) / नर्तकः-नर्तकी / खनक:-खनकी / 'असि अके अने च रजेनेलोपो वाच्यः' (वा 4067) / रजक:-रजकी / भाष्यमते तु नृतिखनिभ्यामेव वुन् / रजेस्तु 'क्वुन्शिल्पिसंज्ञयोः' (उणा 191) इति क्वुन् / टाप् / रजिका। पुंयोगे तु रजकी। 2908 / गस्थकन् / (3-1-146) गायतेस्थकन्स्यात् , शिल्पिनि कर्तरि / गाथकः / 2909 / ण्युट् च / (3-1-147) गायनः / टित्त्वागायनी / 2910 / हश्च ब्रीहिकालयोः / (3-1-148) प्रापयति स्वस्वकार्यमित्यर्थे 'भू प्राप्तौ' इति चुरादिण्यन्तात् भावि इत्यस्मात् अच्प्रत्यये णिलोपे भावशब्द इत्यर्थः / गेहे कः // ‘विभाषा ग्रहः' इत्यस्यापवादः। गृहमिति // 'अहिज्या' इति सम्प्रसारणं पूर्वरूपञ्च / ननु गृहा दारा इति कथम् / गेहे कर्तथैव वाच्ये कप्रत्ययविधानादित्यत आह / तात्स्थ्यादिति // गृहशब्दो गेहस्थे लाक्षणिकः इति भावः / गृहा दारा इति // “दारेष्वपि गृहाः" इत्यमरः / शिल्पिनि वुन् // नृतिखनिरञ्जिभ्य एवेति // वार्तिकमिदम् / नर्तकीति // पित्त्वात् ङीषिति भावः / ‘दंशसञ्जस्वजां शपि' इति सूत्रे ‘रजकरजनरजस्सूपसङ्ख्यानम् ' इति वार्तिकम् / तत् अर्थतस्सङ्ग्रहाति / असि अके अने चेति // रजक इति // रजेः शिल्पिनि वुनि अकादेशे नलोपः / रजकीति॥ षित्त्वात् ङीष् / नृतिखनिरञ्जिभ्य एवेति परिगणनात् / 'वेञ् तन्तुसन्ताने' इत्यस्मात् कृतात्त्वात् 'श्यायध' इति णप्रत्यये आतो युकि वाय इति सिध्यति / भाष्यमते तु नृतिखनि. भ्यामेवेति // इदञ्च ‘दंशसञ्जस्वजां शपि' इति सूत्रे भाष्ये स्पष्टम् / ननु भाष्यमते क्वुनि रजकीति कथमित्यत आह / पुंयोगे तु रजकीति // गस्थकन् / गः थकनिति च्छेदः / गैधातोः कृतात्वस्य गः इति पञ्चम्यन्तम् / तदाह / गायतेरिति // ण्युट् च // ककार उक्तसमुच्चये। गायतेर्युट् च स्यात् थकन् च शिल्पिनि कर्तरि / गायन इति // आत्वे युक् / 'आदे च' इत्यात्वस्य अनैमित्तिकत्वेन वृद्ध्यपेक्षया अन्तरङ्गत्वात् / यद्यपि 'गस्थकन् ण्युट च' इत्येकमेव सूत्रमुचितम् / तथापि ण्युट एवोत्तरसूत्रे अनुवृत्त्यर्थों योगविभागः / हश्च // 'ओ हाक् त्यागे' इत्यस्य 'आ हाङ् गतौ' इत्यस्य च हः इति पञ्चम्यन्तम् / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy