________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 502 सिद्धान्तकौमुदीसहिता [कृदन्त 2903 / श्यायधाञसंस्वतीणवसावहलिहश्लिषश्वसश्च। (3-1-141) श्यैप्रभृतिभ्यो नित्यं ण: स्यात् / श्येडोऽवस्यतेश्चादन्तत्वात्सिद्धे पृथग्ग्रहणमुपसर्गे कं बाधितुम् / अवश्यायः / प्रतिश्यायः / आत् / दायः / धायः / व्याधः / 'जु गतौ' आङ्पूर्वः संपूर्वश्च / आस्रावः। संस्रावः / अत्यायः / अवसाय: / अवहारः / लेहः / श्लेष: / श्वासः / 2904 / दुन्योरनुपसर्गे / (3-1-142) णः स्यात् / दुनोतीति दावः / नीसाहचर्यात्सानुबन्धकाहुनौतेरेव णः / दवतेस्तु पचाद्यच् दवः / नयतीति नाय: / उपसर्गे तु प्रदवः / प्रणयः / 2905 / विभाषा ग्रहः / (3-1-143) णो वा / पक्षेऽच् / व्यवस्थितविभाषेयम् / तेन जलचरे ग्राहः / ज्योतिषि ग्रहः / ‘भवतेश्च' इति काशिका / भवो देवः संसारश्च / भावाः पदार्थाः / भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् / भावः / भाष्ये उदाहरणादिति भावः / श्यायधात्रु // श्या, आत् , व्यध, आशु, संयु, अतीण , अवसा, अवह, लिह, श्लिष, श्वस् , एषामेकादशानां समाहारद्वन्द्वात्पञ्चमी / अनुपसर्गादिति निवृत्तम् / उत्तरसूत्रेऽनुपसर्गग्रहणात्। एवञ्च तत्सम्बद्धं विभाषाग्रहणञ्च नानुवर्तते / तदाह। नित्यमिति // श्यैङः इति // श्यैद्धातोः अवपूर्वकात् षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः / तयोरादन्तत्वादेव सिद्धे पुनर्ग्रहणम् ‘आतश्वोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः / अवश्यायः, प्रतिश्याय इति // श्यैङः आत्त्वे कृते णः आतो युक् / आदिति // आदन्तस्योदाहरणसूचनम् / दायः, धायः इति // णे आतो युक् / व्याध इति // व्यधेर्णे उपधावृद्धिः / आत्रावा, संस्राव इति // णे 'अचोऽणिति' इति वृद्धिः, आवादेशः / अत्याय इति // अतिपूर्वादिग्धातोर्णे वृद्ध्यायादेशौ / अवसाय इति // अवपूर्वात् 'षोऽन्तकर्मणि' इत्यस्मात् णे आत्त्वे आतो युक् / लेहः, श्लेषः इति ॥णे लघूपधगुणः / श्वास इति // णे उपधावृद्धिः / दुन्योरनुपसर्गे // दुनोतेः नयतेश्चेत्यर्थः / दवशब्दं साधयितुमाह / नीसाहचर्यादिति // नीअधातुस्सानुबन्धकः तत्साहचर्यात् 'टु दु उपतापे' इति स्वादिगणस्थादेव णप्रत्यय इत्यर्थः / दवतेस्त्विति // 'दु द्रु गतौ' इति भौवादिकात् निरनुबन्धकात्पचायजित्यर्थः / विभाषा ग्रहः // व्यवस्थितविभाषेयमिति // इदं 'शाच्छोः' इति सूत्रे भाष्ये स्पष्टम् / तेनेति // जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ प्राह इत्येव भवति / ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये ग्रह इत्येव भवतीत्यर्थः / भवते. श्चेति // णो वेति शेषः / पक्षे अच् / काशिकेति // भाष्ये तु न दृश्यते इति भावः / इयमपि व्यवस्थितविभाषैव / तदाह / भवो देव इति // महादेव इत्यर्थः / अत्र अजेवेति भावः / भावाः पदार्था इति // अत्र ण एवेति भावः / ननु भवतेश्चेति णविकल्पस्य भाष्ये अदर्शनात् कथं भाष्यमते भावशब्द इत्यत आह / भाष्यमते त्विति // भावयति For Private And Personal Use Only