________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 494 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 'अर्हे कृत्यतृचश्च' (सू 2822) स्तोतुमर्हः स्तुत्यः स्तुतिकर्म / स्तोता स्तुतिकर्ता / लिङा बाधा मा भूदिति कृत्यतृचोविधिः / 2894 / भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्या पात्या वा / (3-4-67) एते कृत्यान्ताः कर्तरि वा निपात्यन्ते / पक्षे तयोरेवेति सकर्मकात्कर्मणि, अकर्मकात्तु भावे ज्ञेयाः / भवतीति भव्यः / भव्यमनेन वा / गायतीति गेयः साम्नामयम् / गेयं सामानेन वा इत्यादि / 'शकि लिङ् च' (सू 2823) / चात्कृत्याः / वोढुं शक्यो वोढव्यः / वहनीयो वाह्यः / लिङा बाधा मा सिद्धमिति // एषु वासरूपविधिर्नास्तीत्यर्थः / “स्त्यधिकारात् प्राक् वासरूपविधिः, नतु तत ऊर्ध्वम्” इति भाष्यस्य क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीत्यत्र सङ्कोच इति भावः / अत्र व्याख्यानमेव शरणम् / अर्हे कृत्यतृचश्चेति // प्राग्व्याख्यातं विशेषविवक्षया स्मार्यते / 'लिङ्यदि' इत्यतो लिङनुकर्षार्थश्चकार इत्युक्तं प्राक् / ननु अर्हे अनर्हे च सामान्यविधानादेव अर्हेऽपि कृत्यतृचोः सिद्धयोः पुनस्तद्विधिर्व्यर्थः इत्यत आह / लिङा बाधेति // अर्हेचेत्येता. वत्येव उक्ते चकारानुकृष्टस्य लिङ एवार्हे विधिः स्यात् / तथा च अर्हे कृत्यतृचोर्विधिनस्यात् , अर्हे विशेषविहितेन लिङा बाधात् , अनर्हे कृत्यतृचोश्चरितार्थत्वात् / वासरूपविधिस्तु स्त्र्यधिकारादूर्ध्वन प्रवर्तते इत्युक्तमेव, अतो लिङा बाधा मा भूदिति कृत्यतृचोविधिरित्यर्थः / भव्यगेय // कर्तरि वेति // ‘कर्तरि कृत्' इत्यतः कर्तरीत्यनुवृत्तं वेत्यनेन सम्बध्यते / तथा च कर्तरि वा एते निपात्यन्ते / अन्यत्र नेति फलति / तत्र अन्यत्रेत्यस्यानिर्धारणादाह / पक्षे इति // अन्यत्रापि न सर्वत्र, किन्तु 'तयोरेव कृत्यक्तखलाः ' इति सूत्रेण सकर्मकात् कर्मणि अकर्मकाद्भावे एते कृत्या ज्ञेयाः इत्यर्थः / 'तयोरेव कृत्य' इति सूत्रे 'लः कर्मणि च' इत्यस्मात्सकर्मकेभ्यः कर्मणि अकर्मकेभ्यो भावे इति अनुवर्तते इति भावः / भवतीति भव्य इति // कर्तरि अचो यत् / भव्यमनेन वेति // भावे यत् / गेयस्साम्नामयमिति // गाधातोः कर्तरि यत् / 'ईद्यति' इति प्रकृतेः ईत्त्वम् / गुणः / सानाकर्मणामनभिहितत्वात् कृद्योगे षष्ठी। कर्तुरभिहितत्वात् प्रथमा। गेयं सामानेनेति // कर्मणि यत्। सकर्मकत्वात् , नतु भावे। कर्तुरनभिहितत्वात्तृतीया / कृद्योगषष्ठी तु कृत्ययोगे कर्तरि वैकल्पिकी, 'कृत्यानाकर्तरि वा' इत्युक्तेः / इत्यादीति // प्रवचनीयो गुरुर्वेदस्य / प्रवक्तेत्यर्थः / कर्तरि अनीयर्। प्रवचनीयो वेदो गुरुणेति वा / उपस्थानीयश्शिष्यो गुरोः, उपस्थानीयो गुरुशिष्येणेति वा / जन्योऽसौ जायते इत्यर्थः / जन्यमनेनेति वा / अप्लवतेऽसौ आप्लाव्यः / 'ओरावश्यके' इति कर्तरि ण्यत् / आप्लाव्यमनेनेति वा / आपतत्यसौ आपात्यः / 'ऋहलोः' इति कर्तरि ण्यत् / आपात्यमनेन वा / 'शकि लिङ् च' इत्यपि व्याख्यातं प्राक् / विशेषविवक्षया सूत्रक्रमादिहोपन्यस्तम् / नन्विह चकारानुकृष्टकृत्यविधिर्व्यर्थः / शक्ती अशक्तौ च भावकर्मणोः सामान्यतः कृत्यविधित एव For Private And Personal Use Only