________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 493 2892 / अग्नौ परिचाय्योपचाय्यसमूह्याः / (3-1-131) अग्निधारणार्थे स्थलविशेष एते साधवः / अन्यत्र तु परिचेयम् / उपचेयम् / संवाह्यम् / 2893 / चित्याग्निचित्ये च / (3-1.132) चीयतेऽसौ चित्योऽग्निः / अग्नेश्चयनमग्निचित्या / 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' (सू 2817) / त्वया गन्तव्यम् / गमनीयम् / गम्यम् / इह लोटा बाधा मा भूदिति पुन: कृत्यविधिः 'स्त्रयधिकारादूर्ध्व वासरूपविधिः कचिन्न' इति ज्ञापयति / तेन ‘क्तल्युट्तुमुन्खलर्थेषु न-' इति सिद्धम् / अधिकरणे ण्यत् / आतो युक् / सञ्चाय्य इति // सम्पूर्वात् चित्रः कर्मणि ण्यत् आयादेशश्च निपात्यते इति भावः / सञ्चायो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः / अग्नौ परिचाय्य // अग्नौ गम्ये परिचाय्य, उपचाय्य समूह्य, एते निपात्यन्त / अग्निशब्द इष्टकारचित. स्थण्डिलविशेषे वर्तते / " इष्टकाभिरग्निश्चिनोति" इति श्रुतेः इष्टकाकृतचयनेन अग्नयाख्यं स्थण्डिलं निष्पादयेदित्यर्थः। “ब्रह्मवादिनो वदन्ति यन्मृदाचाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोऽभिश्चिनोत्यग्नयो वै छंदाँसि तस्मादग्निरुच्यतेऽथो इयं वा अग्निर्वैश्वानरो यन्मृदाचिनोति तस्मादग्निरुच्यते” इति वाक्यशेषाच्च / तदाह / अग्निधारणेति // तत्र परिपूर्वादुपपूर्वाच्च चिञः कर्मणि ण्यत् आयादेशश्च निपात्यते / सम्पूर्वस्य वहेस्तु कर्मणि ण्यति सम्प्रसारणम् , दीर्घश्च निपात्यते / “समूह्यञ्चिन्वीत पशुकामः परिचाय्यञ्चिन्वीत ग्रामकामः" इति तैत्तिरीयश्रुतौ परिचाय्यसमूह्यौ प्रसिद्धौ। उपचाय्यस्त्वग्निः क्वचिच्छाखायामन्वेषणीयः / चित्याग्निचित्ये च // चित्यश्च अग्निचित्या चेति द्वन्द्वः। अग्नौ निपात्येते। चित्योऽग्निरिति॥ कर्मणि ण्यत् तुक्च निपात्यते / अग्नेश्चयनमिति // अग्निशब्दे षष्ठ्यन्ते उपपदे चिणो ण्यत् तुक् च, स्त्रीत्वं लोकात् / 'प्रैषातिसर्ग' इति व्याख्यातमपि स्मार्यते / गम्यमिति // ‘पोरदुपधात्' इति ण्यदपवादः क्यप्। ननु सामान्येन भावकर्मणोर्विहितानां कृत्यानाम्प्रैषादिषु तदभावे च सिद्धे प्रैषादिषु कृत्यविधिर्व्यर्थ इत्यत आह / लोटा बाधा इति // इह प्रैषादिषु कृत्यविध्यभावे लोट चेति प्रैषादिषु लोटा विशेषविहितेन कृत्यानां बाधः स्यात् / कृत्यानाम्प्रैषाद्यभावे भावकर्मणोश्चरितार्थत्वात् / अतः प्रैषादिषु कृत्यानां लोटा बाधनिवृत्तये पुनः कृत्यविधिरित्यर्थः / ननु वासरूपविधिनैव लोटा प्रैषादिषु कृत्यानां बाधो न भविष्यतीत्यत आह / स्त्रयधिकारादूर्वमिति // 'स्त्रियां क्तिन्' इत्यूर्ध्वमित्यर्थः। 'प्राक् स्त्रियाः वासरूपविधिः' इति भाष्यम् / ननु स्त्रयधिकारादूर्व बासरूपविधेरप्रवृत्तौ ‘स्त्रियां क्तिन्' इति सामान्यविहितस्य क्तिनः ‘षिद्भिदादिभ्योऽङ्' इति विशेषविहितेन नित्यबाधस्स्यात् , ततः क्षमा क्षान्तिः, भिदा भित्तिरित्यादि न स्यात् इत्यत आह / क्वचिन्नेति // वचिदित्यस्यानिर्धारणादाह / तेन क्तल्युट्तुमुन्खलर्थेषु नेति For Private And Personal Use Only