________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 492 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 2889 / प्रणाय्योऽसंमतौ / (3-1-128) संमति: प्रीतिविषयीभवनं कर्मव्यापारः / तथा भोगेष्वादरोऽपि संमतिः / प्रणाय्यश्चोरः / प्रीत्यनह इत्यर्थः / प्रणाय्योऽन्तेवासी / विरक्त इत्यर्थः / प्रणेयोऽन्यः / 2890 / पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्नि वाससामिधेनीषु / (3-1-129) मीयतेऽनेन पाय्यं मानम् / ण्यत् धात्वादेः पत्वञ्च / 'आतो युक्-' (सू 2761) इति युक् / सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविविशेषः / ण्यदायादेश: समो दीर्घश्च निपात्यते / निचीयतेऽस्मिन्धान्यादिकं निकाय्यो निवास: / अधिकरणे ण्यत् आय् धात्वादेः कुत्वञ्च निपात्यते / धीयतेऽनया समिदिति धाय्या ऋक् / 2891 / ऋतौ कुण्डपाय्यसञ्चाय्यौ / (3-1-130) कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः। सञ्चीयतेऽसौ सञ्चाय्यः। तथाविधदक्षिणाग्नौ वाच्ये आनेयशब्द एवेति भावः / प्रणाय्योऽसम्मतौ // असम्मतौ गम्यायां प्रणाय्य इति निपात्यते / तत्र असम्मतिशब्दैकदेशं सम्मतिशब्द विकृणोति। सम्मतिः प्रीतिविषयीभवनमिति // तच्च कर्मनिष्ठमित्याह / कर्मव्यापार इति // तथेति // भोगेषु सुखदुःखानुभवेषु आसक्तिरपि सम्मतिरित्यर्थः / एवंविधा सम्मतिर्न भवतीति असम्मतिरिति फलितम् / प्रणाय्यश्चोर इति // ण्यति वृद्धौ आयादेशः / पाय्यसान्नाय्य // पाय्य, सानाय्य, निकाय्य, धाय्य, एषान्द्वन्द्वात्प्रथमाबहुवचनम् / मान, हविः, निवास, सामिधेनी एषान्द्वन्द्वात्सप्तमी / मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्ते / मीयते अनेनेति // माधातोः करणे ण्यत् , धात्वादेर्मकारस्य पत्वञ्च निपात्यते इत्यर्थः / आत इति // ण्यति 'मीनाति' इत्यात्त्वे कृते, आतो युगिति भावः / ण्यदिति // सम्पूर्वात् नीधातोः कर्मणि निपात्यते इत्यर्थः / आयादेश इति // सन्नी य इति स्थिते आयादेशः निपात्यते इत्यन्वयः / निवास इति // कुसूलादिरित्यर्थः / अधिकरणे इति // चिञ्धातोराधिकरणे ण्यन्निपात्यते इत्यन्वयः / आय् इति // अच्परकत्वाभावात् आयादेशोऽप्राप्तो निपात्यते इत्यन्वयः / धाय्या ऋगिति // धाधातोः करणे ण्यति, आयादेशो निपात्यते इति भावः / सामिधेन्यो नाम समिदाधानार्थी ऋग्विशेषाः / तत्र 'समिध्यमानो अध्वरे' इति ऋच उपरि प्रक्षेप्या 'पृथुपाजा अमर्त्यः' इत्याद्या ऋक्प्रसिद्धा / क्रतौ कुण्डपाय्य / ऋतुविशेषे गम्ये एतौ निपात्यते / कुण्डेनेति // अत्सरुकैः चमसैरित्यर्थः / सामान्यनैकवचनम् / “यदत्सरुकैश्चसमैर्भक्षयन्ति तदेषाँ कुण्डम् " इति श्रुतिः। कुण्डपाय्य इति // सत्रविशेषात्मकः क्रतुः / कुण्डेनेति तृतीयान्ते उपपदे For Private And Personal Use Only