________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 491 2885 / भोज्यं भक्ष्ये / (7-3-69) भोग्यमन्यत् / ' ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम्' / लाप्यम् / दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्य: / दाभ्यः / 2886 / ओरावश्यके / (3-1-125) उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यम्भावे द्योत्ये / लाव्यम् / पाव्यम् / 2887 / आसुयुवपिरपित्रपिचमश्च / (3-1-126) 'पुञ्' आसाव्यम् / 'यु मिश्रणे' याव्यम् / वाप्यम् / राप्यम् / त्राप्यम् / आचाम्यम् / 2888 / आनाय्योऽनित्ये / (3-1-126) आयूर्वान्नयतेर्ण्यदायादेशश्च निपात्यते / दक्षिणाग्निविशेष एवेदम् / स हि गार्हपत्यादानीयतेऽनित्यश्च सततमप्रज्वलनात् / आनेयोऽन्यः घटादिः, वैश्यकुलादानीतो दक्षिणाग्निश्च / विहितण्यन्तस्य शक्यार्थकत्वमपि / भोज्यं भक्ष्ये // भक्ष्ये गम्ये ण्ये भुजेः कुत्वाभावो निपात्यते / इति प्रासङ्गिकम् / अथ प्रकृतम् / लपिदभिभ्याञ्चेति // वार्तिकमिदं 'ऋहलोर्ण्यत्' इति सूत्रस्थम् / 'पोरदुपधात्' इति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः / ओरावश्यके // लाव्यं पाव्यमिति // 'अचो णिति' इति वृद्धौ ‘वान्तो यि' इत्यावादेशः / आसुयुवपि // आसु, यु, वपि, रपि, पि, चम्, एषां समाहारद्वन्द्वः / व्यदिति शेषः / आसाव्यमिति // आयूर्वस्य सुजो ग्रहणमिति भावः / आनाय्यो. ऽनित्ये // अनित्ये इति छदः / दक्षिणाग्निविशेष एवेति // वार्तिकमिदम् / स हीति // दक्षिणाग्निर्हि अग्निहोत्रार्थमहरहः गार्हपत्यादेः प्रणीयत इत्यर्थः / एतेन आयूर्वकस्य नयतेरर्थ उक्तः / अनित्यश्चेति // गार्हपत्यवन्नित्यधारणाभावादिति भावः / तदाह / सततमप्रज्वलनादिति // सततन्धारणाभावादित्यर्थः। प्रणीतस्य दक्षिणाग्नेस्तत्तत्कर्मणि समाप्ते लौकिकत्वमुक्तं कल्पसूत्रेषु "अप्रवृत्ते कर्मणि लौकिकं सम्पद्यते" इति / ततश्च पुनः पुनः प्रणयनात् अनित्यत्वन्दक्षिणाग्नेरिति बोध्यम् / यद्यप्याहवनीयस्यापि पुनः पुनः प्रणयनमस्ति, तथापि दक्षिणाग्निविशेष एवेति वार्तिकानाहवनीयस्य ग्रहणमित्यर्थः / विशेषग्रहणानित्यधारणपक्षे दक्षिणाग्निरिह न गृह्यते इति सूचितम् / गतश्रियान्दक्षिणाग्नेरपि नित्यधार्यत्वात् / “गतश्रियो नित्यधार्या अग्नयः” इति वचनादित्यलम्पल्लवितेन / वैश्यकुलादानीत इति // दक्षिणाग्निं प्रकृत्य हि श्रूयते। 'अहरहरेवैनं वैश्यकुलादाहरन्' इति / 1. 'चाम्यम्' इति अपपाठः, वृद्ध्यनुपपत्तेः / For Private And Personal Use Only