________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 485 _ 'वृत्' / वृत्यम् / 'वृध्' / वृध्यम् / क्लपित्योस्तु / कल्प्यम् / चय॑म् / 'तपरकरणम्' किम् / ‘कृत्' कीर्त्यम्' / अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् / णिजन्तात्तु यदेव / 2860 / ई च खनः / (3-1-111) चाक्यप् / आद्गुणः / खेयम् / ‘इ च' इति ह्रस्व: सुपठः / 2861 / भृञोऽसंज्ञायाम् / (3-1-112) भृत्याः कर्मकरा भर्तव्या इत्यर्थः / क्रियाशब्दोऽयं न तु संज्ञा / 'समश्च बहुलम्' (वा 1940) / सम्भृत्या:-सम्भार्याः / असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् / 'असंज्ञायाम्' किम् / भार्या नाम क्षत्रियाः / अथ कथं भार्या वधूरिति / इह हि संज्ञायां समज-' (सू 3276) इति क्यपा भाव्यम् / संज्ञापर्युदासस्तु पुंसि चरितार्थः / सत्यम् / बिभर्ते इति दीर्घान्तात्क्रयादेर्वा ण्यत् / क्यप्तु भरतेरेव / तदनुबन्धकग्रहणे-' इति परिभाषया। आह / अनित्यण्यन्ता इति // णिजन्तातु यदेवेति // 'अचो यत्' इत्यनेनेति भावः / ई च खनः // चात् क्यविति // खनेः क्यप् स्यात् प्रकृतेः ईकारोऽन्तादेशश्चेत्यर्थः / हस्वस्सुपठ इति // ह्रस्वस्य इकारस्य विधौ आद्गुणेन खेयमिति सिद्धेः इति भावः / दीर्घोच्चारणसमर्थनन्तु भाष्ये स्पष्टम् * / भृञोऽसंज्ञायाम् // क्यबिति शेषः / भृत्याः कर्मकरा इति / / भृत्यर्थङ्कर्म कुर्वाणा इत्यर्थः / 'कर्मणि भृतौ' इति कृअष्टः। भर्तव्या इति // वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः / ननु भृत्यशब्दस्य कर्मकरेषु रूढत्वात्संज्ञाशब्दत्वमवेत्यत आह / क्रियाशब्द इति // भार्या नाम क्षत्रिया इति / क्षत्रियविशेषेषु रूढस्संज्ञाशब्दोऽयमिति भावः / अथ कथं भार्येति // क्यपा भवितव्यमित्याक्षेपः / ननु वध्वाम्भार्याशब्दस्य संज्ञाशब्दत्वात् 'भृोऽसंज्ञायाम्' इत्यस्याप्रवृत्तरयमाक्षेपोऽनुपपन्न इत्यत आह / इह हीति // 'स्त्रियां क्तिन्' इत्यतः स्त्रियामित्यनुवृत्तौ 'बजयजो वे क्यप्'। 'संज्ञायां समजनिषद' इति सूत्रेण क्यप् स्यादित्यर्थः / ननु संज्ञायां भृञः क्यब्विधौ ‘भृाऽसंज्ञायाम्' इत्यत्र असंज्ञायामिति व्यर्थमित्यत आह / संशापर्युदासस्त्विति // समाधत्ते / सत्यमिति / / 'डु भृञ् धारणपोषणयोः' इति जुहोत्यादौ ह्रस्वान्तः द्वित् जिच्च 'भृ भर्त्सने, भरणेऽपि' इति क्रयादौ दीर्घान्तः। आभ्यां 'ऋहलोऽयेत्' इति ण्यदेवेत्यर्थः / क्यप् तु भरतेरेवति // 'भृञ् भरणे' इति भ्वादौ ह्रस्वान्तो मित् / अस्यैव 'संज्ञायां समजनिषद' इत्यत्र 'भृओऽसंज्ञाम्' इत्यत्र च भृग्रहणेन ग्रहणम् / नतु डुओ जौहोत्यादिकस्य / न च कैयादिकस्य निरनुबन्धकस्य दीर्घान्तस्येति भावः। कुत इत्यत आह / तदनुबन्धकेति // तदनुबन्धकग्रहणे नातदनुबन्धकस्य' इति परिभाषयेत्यर्थः / बिभर्तेः क्यबभावे बीजमिदम् / कैयादिकस्य दीर्घान्तत्वात् * संप्रत्युपलभ्यमानभाष्यकोशेषु तु न तत्समर्थनमस्ति / एतद्विचारस्तु प्रौढमनोरमायां दृश्यते / For Private And Personal Use Only