________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 482 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य इति स्मृतेः / पण्या गौः / व्यवहर्तव्येत्यर्थः / पाण्यमन्यत् / स्तुत्यहमित्यर्थः / अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् / शतेन वर्या कन्या / वृत्यान्यः / 2850 / वह्यं करणम् / (3-1-102) वहन्त्यनेनेति वह्यं शकटम् / 'करणम्' किम् / वाह्यम्-वोढव्यम् / 2851 / अर्यः स्वामिवैश्ययोः / (3-1-103) 'ऋगतो' अस्माद्यत् / ण्यतोऽपवादः / अर्यः स्वामी वैश्यो वा / 'अनयो:' किम् / आर्यो ब्राह्मणः प्राप्तव्य इत्यर्थः / 2852 / उपसर्या काल्या प्रजने / (3-1-104) गर्भग्रहणे प्राप्तकाला चेदित्यर्थः / उपसर्या गौः / गर्भाधानार्थ वृषभेणोपगन्तुं योग्येत्यर्थः / 'प्रजने काल्या' इति किम् / उपसार्या काशी / प्राप्तव्येत्यर्थः। 2853 / अजय सङ्गतम् / (3-1-105) पणधातोर्व्यवहारार्थकात् यन्निपात्यते इति भावः / यद्यपि 'पण व्यवहारे स्तुतौ च' इति धातोः अर्थद्वयमस्ति / तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्यते / तदाह / व्यवहर्तव्येति // क्रेतव्यत्यर्थः / पाण्यमन्यदिति // ण्यति उपधावृद्धिरिति भावः / व्यवहर्तव्यादन्यादित्यर्थः / तदाह / स्तुत्यहमिति // अप्रतिबन्धः इति / / अनियम इत्यर्थः / वृङो यदिति // 'वृङ् सम्भक्ता' इति कैयादिकस्यैवात्र ग्रहणम् / नतु 'वृञ् वरणे' इत्यस्य / निरोधरूपार्थस्य सम्भक्तिवाचित्व एव सामन्जस्यादिति भावः / शतेन वर्या कन्येति // पुरुषशतेन परिग्रहीतुमरे / अनेनैव वरणीयेति नियमो नास्तीत्यर्थः / वृत्या अन्येति / / अनुरूपेण वरणीयेत्यर्थः / 'एतिस्तुशास्त्रजुषः क्यप्' इति क्यपि तुक् / अत्र अनियमस्य अप्रतीतेः न यत् / अत्र व शब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि वार्या ऋत्विज इति वृत्तिः। वह्यङ्करणम् // वहेः करणे यत् निपात्यते / ण्यतोऽपवादः। अर्यः स्वामिवैश्ययोः॥अस्माद्यदिति // निपात्यत इति शेषः / ण्यतोऽपवाद इति // 'ऋहलोः' इति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः / यति ऋकारस्य गुणे रपरत्वम् / तदाह / अर्यः स्वामीति / आर्यो ब्राह्मणः इति // ण्यति वृद्धौ रपरत्वमिति भावः / उपसर्या // प्रजननं प्रजनः गर्भग्रहणम् / भावे घञ्, 'जनिवध्योश्च' इति वृद्धिनिषेधः / कालः प्राप्तोऽस्याः काल्या। तदस्य प्राप्तमित्यनुवर्तमाने 'कालाद्यत्' इति यत् / चेदित्यध्याहार्यम् / तदाह / गर्भग्रहणे प्राप्तकाला चेदिति // गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिः विवक्षिता चेत् उपसर्या इति निपात्यते। उपपूर्वात् मृधातोः यदिति फलितम् / ण्यतोऽपवादः। अजयम् // कर्तरि For Private And Personal Use Only