________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 1584) इत्युक्तं णत्वप्रकरणोपरि तद्बोध्यम / यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् / प्रख्यानीयम् / / 2841 / कृत्यल्युटो बहुळम् / (3-3-113) स्मान्त्यनेन स्नानीयं चूर्णम् / दीयतेऽस्मै दानीयो विप्रः / 2842 / अचो यत् / (3-1-17) अजन्ताद्धातोर्यत्स्यात् / चेयम् / जेयम / अज्ग्रहणं शक्यमकर्तुम / योगविभागोऽप्येवम् / तव्यदादिष्वेव यतोऽपि सुपठत्वात् / 2843 / ईद्यति / (6-4-65) यति परे आत ईत्स्यात् / गुणः / देयम् / ग्लेयम् ‘तकिशसिचतियतिजनिभ्यो यद्वाच्यः' (वा 1922) तक्यम् / शस्यम् / चत्यम् / यत्यम् / जन्यम् / जनेर्यद्विधिः स्वरार्थः / ण्यतापि रूपसिद्धेः / न च वृद्धिप्रसङ्गः / इह 'कृत्यचः' इति प्राप्तं णत्वन्नेति भावः / णत्वप्रकरणोपरीति // इदं ‘चक्षिङः ख्याञ्' इति सूत्रे भाष्ये स्पष्टम् / प्रख्यानीयमिति // इह यत्वस्यासिद्धतया शकारेण व्यवधानात ‘कृत्यचः' इति णत्वनेति भावः / कृत्यल्युटो // याभ्यः प्रकृतिभ्यो येष्वर्थेषु विहिताः ततोऽन्यत्रापि स्युरित्यर्थः / स्नानीयमिति // करणे अनीयर् / दानीयः इति // सम्प्र. दाने अनीयर् / भाष्येऽपि ‘कृत्यल्युटो बहुळमिति वक्तव्यम्' इत्युक्त्वा पादाभ्यां हियते पादहारकः / कर्मणि ण्वुल् / श्रोऽनीनाधास्यमानेन अनद्यतने भविष्यति लडित्युदाहृतम् / अचो यत् // शक्यमकर्तुमिति // ‘ऋहलोर्ण्यत्' इति ऋहलन्तात् विशिष्य ण्यतो विहितत्वेन हलन्तेभ्यो यत्प्रत्ययस्याप्रवृत्तिरित्यर्थः / वासरूपविधिस्तु सरूपत्वान्न भवति / योगविभागो. ऽप्येवमिति // कर्तुमशक्य इत्यर्थः / कुत इत्यत आह / तव्यदादिष्वेवेति // तव्यनव्यानीयर्यतः, इत्येकसूत्रत्वेनैव पठितुं शक्यत्वादित्यर्थः / ईद्यति // आतः इति // 'आतो लोप इटि च' इत्यतः तदनुवृत्तरिति भावः / गुणः इति // दाधातोः 'अचो यत्' इति यति आतः ईत्त्वे 'सार्वधातुकार्धधातुकयोः' इति गुण इति भावः / ग्लेयमिति // 'ग्लै हर्षक्षये' इति धातोर्यति आदेचः इत्यात्त्वे ईत्त्वे गुण इति भावः / तकिशसीति // तकि, शसि, चति, यति, जनि, एषां पञ्चानां द्वन्द्वः / इका निर्देशः / 'ऋहलोय॑त् ' इत्यस्यापवादः / 'तक हसने, शसु हिंसायां, चते याचने, यती प्रयत्ने, जनी प्रादुर्भावे' इति धातवः / अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्ययः / सकर्मकेभ्यस्तु कर्मण्यपीति विवेकः / ननु 'अहे कृत्यतृचश्च' इत्यर्हे ऽपि जनेताऽपि जन्यमिति रूपसिद्धेः जनिग्रहणं व्यर्थमित्यत आह। स्वरार्थः इति / 'यतो नावः' इत्याद्युदात्तार्थ इत्यर्थः / ननु ण्यति उपधाद्धिः स्यात् / अतस्तदभावार्थमिह जनेयद्विधिरस्त्वित्याशय निराकरोति / न च वृद्धिप्रसङ्गः इति // कुत इत्यत आह / जनि For Private And Personal Use Only