________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता कृदन्तकृत्य 2831 / कृत्याः / (3-1-95) अधिकारोऽयं ण्वुल: प्राक् / 2832 / कर्तरि कृत् / (3-4-67) कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते / / 2833 / तयोरेव कृत्यक्तखलाः / (3-4-70) एते भावकर्मणोरेव स्युः। 2834 / तव्यत्तव्यानीयरः / (3-1-96) धातोरेते प्रत्ययाः स्युः / तकाररेफौ स्वराौँ / एधितव्यम् / एधनीयं त्वया / भावे औत्सर्गिकमेकवचनं क्लीबत्वं च / चेतव्यश्चयनीयो वा धर्मस्त्वया / वसेस्तव्यत्कर्तरि णिच' (वा 1920) / वसतीति वास्तव्यः / केळिमर उपसंख्यानम्' (1919) / पचेळिमा माषा: / पक्तव्याः भिदेळिमाः क्तत्वाभावात् / कृत्याः // कृत्यसंज्ञका इत्यर्थः / ततश्च ‘प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च, अहे कृत्यतृचश्च, शकि लिङ् च' इत्यादि प्रवर्तते / ण्वुलः प्रागिति || ‘ण्वुल्तृचौ' इत्यतः प्रागित्यर्थः / एतच्च भाष्ये स्पष्टम् / कर्तरि कृत् // अर्थनिर्देशोऽयम् // इति प्राप्ते इति / वक्ष्यमाणतव्यदादिप्रत्ययानां कृत्संज्ञकत्वात्तेषाकर्तरि प्राप्तावित्यर्थः / तयोरेव कृत्यक्तखल र्थाः // 'लः कर्मणि च भावे च' इति सूत्रोपात्ते भावकर्मणी तच्छब्देन परामृश्यते / तदाह / एते भावकर्मणोरेवेति // नतु कर्तरीति भावः / वैशेषिकत्वादेव सिद्धे एवकारस्तु तव्यदादीनां कृत्सकतया प्राप्तकर्तृकत्वस्याभावमनुवदन् कृत्यसंज्ञया वैशेषिक्या कृत्संज्ञाया अबाध. मयति / तव्यत्तव्यानीयरः // तव्यत् तव्य अनीयर् एषान्द्वन्द्वः / प्रत्ययाः स्यु रिति॥ ते कृत्संज्ञकाः कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम् / स्वरार्थाविति // 'तित्स्वरितम्' इति 'उपो. नमं रिति' इति च स्वरविशेषार्थत्वादित्यर्थः / निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण आयुदात्तवमेवेति बोध्यम् / भावे उदाहरति / एधितव्यमिति // त्वत्कर्तृका एधनक्रियेत्यर्थः। ननु 'ल: कर्मणि च' इत्यत्र असत्त्वभूतस्यैव भावस्य ग्रहणम / तिवाच्यभावनाया असत्त्वरूपताया: उक्तत्वात् / ततश्च तस्य भावस्य असत्त्वरूपस्यात्र 'तयोरेव कृत्य' इति तच्छब्देन परामर्शात्तव्यदादीनामसत्त्ववाचितया लिङ्गसङ्खयान्वयोऽनुपपन्न इत्यत आह / भावे औत्सर्गिकमेकवचनमिति // ‘एकवचनं, द्विबहुषु द्विबहुवचने' इति सूत्रपाठमभ्युपगम्य द्वित्ववहुत्वाभावे एकवचनमिति भाष्यसिद्धान्तादिति भावः / क्लीबत्वञ्चेति // एकश्रुतिः स्वरसर्वनाम / लिङ्गगर्वनाम नपुंसकमिति ‘दाण्डिनायन' इति सूत्रस्थभाष्यादिति भावः / कर्मण्युदाहरति / चेतव्यः इति // ‘वसेस्तव्यत् कर्तरि णिच' इति वार्तिकम् / वास्तव्यः इति // वस्तेत्यर्थः / णत्त्वादुपधावृद्धिः / केळिमरः इति // धातोरित्येव / भावकर्मणोरेवेदम् / केळिमरि ककाररे For Private And Personal Use Only